पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
श्रीवेङ्कटाचलमाहात्म्यम्


पुराणं ये तु सम्पूज्य ताम्बूलवैरुपायनैः ।
शृण्वन्ति च कथां भक्या न दरिद्रा न पापिनः ॥ ३६

कथायां कथ्यमानायां ये गच्छन्यन्यतो नराः।
भोगाक्षरे प्रणश्यति तेषां दाराश्च सम्पदः ॥ ३७

सोष्णीषमस्तका ये च कथां शृण्वन्ति पावनीम् ।
ते बालकाः प्रजायन्ते पापिनो मनुजाधमाः ॥ ३८

ताम्बूलं भक्षयन्तो ये कथां शृणन्ति पवनीम् ।
श्वविष्ठां भक्षयन्येते नरके च पतन्ति हि ॥ ३९

ये च तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः ।
अक्षयान्नरकान् भुक् ते भवन्यैव वायसाः ॥ ४०

ये च वीरासनारूढा ये च सिंहासनथिताः ।
शृणुषन्त सकथां ते वै भवन्यर्जुनपादपाः ॥ ५१

असप्रणम्य शृण्वन्तो विषवृक्षा भवन्ति हि ।
तथा शयानाः शृण्वन्नो भवन्यजगरा हि ते ॥ ४२

यः शृणोति कथां चक्रुः समानासनसंस्थितः ।
गुरुतल्पसमं परं सप्राध्य नरक व्रजेत् ॥।४३

ये निन्दन्त पुराणी सकथां पापहारिणीम् ।
ते वै जन्मशते मयः शुनश्च भवन्ति हि ॥ ४४

कथायां कीर्यमानायां ये वदन्ति दुरुतरम् ।
ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ॥ ४५

कदाचिदपि ये पुण्यां न मृष्यत कथं नराः।
ते भुक्ता नरकान् घोरान् भवन्ति वनसूकराः ॥ ४६

कथायां कीर्यमानायां विप्नं कुर्वन्ति ये नराः।
कोयब्दं नरकन् भुक्तं भवन्ति प्रामस्कारः ॥ ५७