पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१५१
श्रीस्कान्दपुराणे सप्तदशोऽध्यायः


सकृत्पुराणश्रवणात् तत्फलं विन्दते नरः}
कलैौ युगे विशेषेण पुराणश्रवणादृते ॥ २५

नास्ति धर्मः परः पुंसां नास्ति मुक्तिप्रदं परम् ।
पुराणश्रवणं विष्णोः नामसङ्कीर्तनं परम् ॥ २६

उभे एव मनुष्याणां पुण्यदुममहाफले ।
पिबन्नेवामृतं यत्नात् एकः स्यादजरामरः ।
विष्णो: कथाऽमृतं कुर्यात् कुलमेवाजरामरम् ॥ २७

पुराणश्चक्षुः सर्वपूजनीयन्ववर्णनम्

बालो युवाऽथ वृद्धो वा दरिद्रो दुर्भगेऽपि वा ।
पुराणज्ञः सदा वन्द्यः स पूज्यः सुकृतास्मभिः ॥ २८

नीचवुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥ २९

भवकोटिसहलेषु भूत्वा भूत्वाऽवसीदताम् ।
यो ददात्यपुनर्युतिं कोऽन्यस्तस्मात्परो गुरुः ॥ ३०

व्यासासनसमारूढो यदा पैौराणिको द्विजः।
आसमाप्तेः प्रसन्नस्य नमस्कुर्यान्न कस्यचित् ॥ । ३१

न दुर्जनसमाकीर्णं न शूद्रश्वपदावृते ।
देशे न यूनसदने वदेत् पुण्यकथां सुधीः ॥ । २२

सुग्रामे सुजनाकीर्णं सुक्षेत्रे देवताऽऽग्नये ।
पुण्ये वाऽथ नदीतीरे वदेत् पुण्यकथां सुधीः ॥ ३३

श्रद्धाभक्तिसमायुक्ताः नान्यकार्येषु लालसाः।
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥ ३४

अभक्या ये कथां पुण्यां शुष्यन्ति मनुजाधमाः।
तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि ॥ ३५