पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५९
श्रीस्कान्दपुराणे सप्तदशोऽध्यायः


श्रीसूतः षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे।
अष्टोत्तरसहस्राणि तेषु मुख्यनि सुव्रत!॥ ४

सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम् ।
सहलेभ्यश्च मुख्यानि पृथक् तेभ्यश्च तानि च।
भक्तिवैराग्यदान्यत्र षष्टिरष्टोसरे शते ॥ ५

मुक्तिदान्यत्र षट् चैत्र वेङ्कटाचलमूर्धनि ।
स्वामिपुष्करिणी चैव वियद्भन्ना ततः परम् ॥ ६

पश्चात्पापविनशश्च पाण्डुतीर्थमत:परम् ।
कुमारधारिकातीर्थ तुम्योस्तीर्थमतः परम् ॥ ७

स्वामिपुष्करिण्यादितीर्थस्नानफलनिर्णयः



कुभमासे पौर्णमास्यां मघथोगो यदा भवेत् ।
कुमारधारिकां यान्ति सर्वतीर्थानि हे द्विजाः ! ॥ ८

तत्र यः खानि विप्रेन्द्राः ! राजसूयफलं लभेत्।।
मुक्तिध भविता। तत्र नात्र कार्या विचारणा ॥ ९

अन्नदानविधिस्तत्र सर्वे दक्षिणया द्विजाः!।
उत्तराफलानीयुक्तशुक्लपक्षीयपर्वणि ॥ १०

तुम्योस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ।
अपराहे सम्पयान्ति तत्र स्नातो न जायते ॥ ११

मैौीक्षे विवाहब कारयेद् द्रव्यदानतः ।
मेषसङ्भणे भानौ चित्रानक्षत्रसंयुते ॥ १२

पौर्णमास्यां समायान्ति विपदानां तथैव च ।
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ॥ १३