कथं मयाऽगतम! कावेरीतीरवासिना।
इति चिन्ताकुलः सोऽथे जावालेतीर्थमुत्तमम् ॥ २०
जाबालिश्च महात्मानं योगीन्द्रवरमुत्तमम् ।
समागम्य प्रणयासौ दुराचारऽभ्यभाषत ॥ २१
'न जाने भगवन् विप्र! पर्वतोऽयं वेदाधुना ।
कावेरीतीरनिलयो दुराचाराभिधो बहम् ॥ २२
कृपया ब्रूहि मे ब्रह्मन् ! मयाऽत्र कथमागतम् ।
इति पृष्टो मुनिस्तेन दुराचरेण सुत्रतः ।
ध्यात्वा मुहूर्तमवदत् दुराचारं कृपानिधिः ॥ २३
जाबालिचणैिषधैणश्राद्धकरणदोषप्रशंसा
जाबालिः
‘महापातकिसंसर्गात् दुराचारस्य ते पुरा ।
ब्रक्षयं नष्टमभवत् वेतालम्यां ततोऽग्रहीत्॥ २४
तेनाविष्टस्वमाया को विवशोऽत्र विमूढधीः। ।
न्यमजयस्त्वां वेतालः तथैऽस्मिन्नतिपवने ॥ २५
अत्र मजनमात्रेण विमुक्तः पातकाद्भवान् ।
जाबालितीर्थे ये स्रने पुष्यं कुर्वन्ति मानवाः ॥ २६
तेष नश्यन्ति वै सयं पक्षपातसञ्चयाः ।।
सत्कर्मसाधने पुण्यतीर्थेऽस्मिन् स्नानमात्रतः ॥ २७
महीपातकिसंसर्गदोषस्ते विंचयं गतः ।
वामप्रहीयो वेतालः पुराऽयं ब्राह्मणोऽभवत् ॥ २८
मृतेऽहनि पितृश्राद्धे नकपर्वणेन वै।
तेन स्वपितृभिः शते वेतालचमगादयम् ॥ २९
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
श्रीस्कान्दपुराणे पञ्चदशोऽध्यायः