त्वन्मनको भविष्यामि यावज्जीवं यथा अहम् ।
तथा रूपं कुरुव त्वं मयि चक्र! नमोऽस्तु ते ॥ ३७
एवं स्तुतं विष्णुचकं सुन्दरेण सभक्तिकम् ।
अनुजग्राह सहसा ' तथाऽस्त्विति मुनीश्वराः ।। ३८
चक्रायुधाभ्यनुज्ञातः सुन्दरो ब्राह्मणोत्तमम् ।
प्रणम्य तेनानुज्ञातो गन्धर्वत्रिदिवं ययौ॥ ३९
सुन्दरे तु गते स्व पझनाभो मुनीश्वरः।
तच्चक्रे प्रार्थयामास ‘विण्ययुथ! नमोऽस्तु ते ॥ ४०
चक्रायुध ! नमामि त्वां महासुरविमर्दन!।
सन्निथनं कुरस्व त्वं चक्रतीर्थेऽमले शुभे॥ ४१
त्वसनिशनासर्वेषां लतानां पापिनामिह ।
पापनाशं कुरुष्व त्वं मोक्षश्च कुरु शश्वतम् ॥ ५२
'चक्रतीर्थमिति ख्यातिं लोकेऽथ परिकल्पय ।
त्नसन्निधानास्त्रत्यमुनीनां भयनाशनम् ॥ ४३
इतः परं भववार्य ! चक्रयुध ! नमोऽस्तु ते ।।
भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो! ॥ ४४
इति सम्प्रार्थितं चक्रे पद्मनाभेन योगिना।
‘तयैव स्वति सम्भाप्य तलिस्तीर्थे तिरोहितम् ॥ ४५
प्रसूतः- एवं वः कथितं विप्राः राक्षसस्योद्भवो मया।
माझस्यं चकर्थस्य कथितञ्च मलापहम् ।
यच्छुत्वा सर्वपपेभ्यो मुच्यते मानवे भुवि ॥ ४६
इति श्रीस्कन्दपुराणे श्रीवेङ्कटाचमाझाल्ये चक्रतीर्थमहिमानुवर्णनं
नाम चतुर्दशोऽध्यायः ।।