पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
श्रीस्कान्दपुराणे चतुर्दशोऽध्यायः


तं दृष्ट्वा भयसंविग्न। जम्मुः रामस्त्रिविष्टपम् ।
ततो राक्षसवेयोऽयं सुन्दरो भैरवाकृतिः ॥ २६

भक्षयन् प्राणिनः सर्वान् देशद्देश वनाद्वनम् ।
भ्रमन्ननिलवेगोऽयं वेङ्कटाद्रिं नर्गत्तमम् ॥ २७

प्रविश्यासै महापापी चक्रतीर्थं ततो ययौ ।
एवं षोडशवर्षाणि भ्रमनोऽय ययुस्तदा ॥ ३८

ततस्तु षोडशादान्ते राक्षमोऽयं मुनीश्वराः !।
भक्षितुं पद्मनाभतं चक्रतीर्थनिवासिनम् ॥ २९

उपद्रयद्वायुवेगः स चासौपीजनार्दनम् ।
योगिना च स्तुतो विष्णुः तदा चक्रमचेदयत् ॥ ३०

रक्षितुं पझनाभं ते राक्षसेन प्रपीडितम् ।
अथाऽगत्य हेरेधनं राक्षसस्य शिरोऽहरत् ॥ ३१

मुन्दाख्यस्य राक्षसन्घविमुक्ति पूर्वोकं स्वयरूपप्राप्तिः

ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ।
विमानवरमारुह्य सुन्दरः पुष्पवर्षितः ॥ ३२

प्राञ्जलिः प्रणतो भूत्वा ववन्दे तमुदर्शनम् ।
तुष्टाव भुतरस्याभि. बभिरनुग्रभिरादरात् ॥ ३३

सुन्दरः-- ‘सुदर्शन! नमस्तेऽस्तु विष्णुहस्सैकभूषण!।
नमस्तेऽसुरसंहर्ते सहस्रादित्यतेजसे ॥ ३४

कृपावेशेन भवतः त्यक्ताऽहं राक्षसीं तनुम् ।
स्वं रूपमभजं विष्णोः चक्रायुध ! नमोऽस्तु ते। । ३५

अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ !।
भार्या मे परिशोचन्ति विरहातुरचेतसः ॥ ३६