पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीसूतः -- वसिष्ठः प्रार्थितस्त्वेवं सुन्दरस्यझनजनैः।
प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमः ॥ १५

सुन्दराख्यस्य वसिष्ठोक्तक्षमत्वनिभृयुपायः

वसिष्ठ- ‘न मे स्याद्वचनं मिथ्या कदाचिदपि सुश्रुवः!।
उपयं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥ १६

जोडशब्दावधि शपो भतुवै भविता ध्रुवम् । ।
षोडशाब्दाचचैौ चैव सुन्दरो राक्षसाकृतिः ॥ १७

यदृच्छया वेङ्कटदं सर्वधपहरं शुभम् ।
गत्वाऽसैौ चकर्थ तत् गमिष्यति सुराङ्गन ! ॥ १८

आस्ते तत्र महायोगी पद्मनाभो मुनीश्वरः ।
भक्षार्थ तं मुनिं सोऽयं राक्षसोऽभिगमिष्यति । १९

ततो ब्राह्मणरक्षार्थं प्रेरितं चक्रमुत्तमम् ।।
विष्णुनाऽस्य शिरः कायात् हरिष्यति न संशयः ॥ २०

ततः स्वं रूपमासाद्य शापान्मुक्तः स सुन्दरः ।
पतिर्वस्त्रिदिवे भूय गन्ता नास्त्यत्र संशयः ॥ २१

ततस्त्रिदिवमासाद्य सुन्दरोऽयं पतिर्हि वः ।।
रमयिष्यति सुन्दयं ! युष्मान् सुन्दरवेषभृत् ' ॥ २२

श्रीसूतः - इयुक्त्वा तु वसिष्ठस्ताः सुन्दरस्य वराननः । ।
स्वाश्रमं प्रययैौ तृणं श्रीरङ्गश्वरभक्तिमान् ॥ २२

अथ रामास्तमालिङ्गय सुन्दरं पतिमास्मनः
रुदुः शोकसन्तप्तः दुःखसागरमध्यगः ॥ २४

दृश्यमानासु तास्वेवं सुन्दरो राक्षसोऽभवत् ।
महादंष्ट्रो महकायो रक्तभूशिरोरुहः । २५