पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
श्रीस्कन्दपुराणे चतुर्दशोऽध्यायः


कदाचित्तत्र गन्धर्वो वीरबाहुसुतो बली।
सुन्दरो नाम विप्रेन्द्राः! विटगोष्ठीपरायणः ॥५

ललनशतसंयुक्तो विवस्त्रः सलिलाशये ।
चिक्रीड स विवस्त्रभिः साकं युवतिभिर्मदा ॥ ६

कवेरजायाःीर्थे तु वसिष्ठो मुनिभिः सह ।।
माध्याह्निकं कर्तुमना यथैौ श्रीरङ्गमन्दरात् ॥ ७

तानृषीनवलोक्याथ रामस्ता भयकातराः ।
वासांस्याच्छादयामासुः सुन्दरो न तु साहसी ।
ततो वसिष्ठः कुपितः शशपैनं गतत्रपम् ॥ ८

वसिष्ठः--
‘यस्मादुन्दर! गन्धर्व ! दृष्टऽसॉल्ज़या त्वया ।
वासो नाच्छादित शीघ्र याहि राक्षसतां ततः ॥ ९

एवमुक्ते वसिष्ठेन रामः प्राञ्जलयस्तदा।
प्रणिय वसिष्ठं तं भक्तिनम्त्रेण चेतसा ।
मुनिमण्डलमध्ये तु वसिष्ठमिदमब्रुवन् ॥ १०

रामः--
भगवन् ! सर्वधर्मज्ञ! चतुरानननन्दन!।
दयासिन्धोऽवलोपयास्मान् न कोपं कर्तुमर्हसि ॥ ११

पतिरेव हि नारीणी भूषणं परमुच्यते ।
पतिहीना तु या नारी शतपुत्राऽपि सा मुने!॥ १२

विधवेत्युच्यते लोके तासां जन्म निरर्थकम् ।
तमसादं कुरु मुने! पस्यामाक्रमादरात् ॥ १३

एकोऽपराधः क्षन्तव्यो मुनिभिस्तत्वदर्शिभिः।
क्षमां कुरु दयासिन्धो ! युष्मच्छिष्येऽत्र सुन्दरे '॥ १४