पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
श्रीवेङ्कटाचलमाहात्म्यम्


विधूतपापा यास्यन्ति तद्विष्णोः परमं पदम् ।।
इत्युक्त्वा विष्णुचकं तत् पद्मनाभस्य पश्यतः ॥ ४४

भन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ।
चक्रपुष्करिणीं तास्तु प्राविशत् पापनाशिनीम् ॥ ४५

श्रीसूतः - चक्रतीर्थय माहाल्यं विप्रेन्द्राः ! पापनाशनम् ।
युष्माकं कथितं सर्वं शौनकाद्याः ! महौजसः ! ॥ ४६

चकर्थसमं तीर्थं न भूतं न भविष्यति ।
अत्र स्नात्वा नरो विप्राः ! मोक्षभाजो न संशयः ॥ ५७

कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः ।
चक्रतीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥ ४८

इति श्रीस्कन्दपुराणे श्रीवेङ्कटाचमाहास्ये चक्रतीर्थमहिमानुवर्णनं


नाम त्रयोदशोऽध्यायः ।



अथ चतुर्दशोऽध्यायः



सुन्दाख्यगन्धर्वस्य गक्षसस्वप्राप्तिनिघून्योरुोद्धतः

ऋषयः- भगवन्! राक्षसः कोऽसैौ सुत पसणिकोत्तम!।
विष्णुभक्तं महात्मानं यो ब्राह्मणमबाधत ॥ १

श्रीसूतः- वक्ष्यामि राक्षसं क्रूरं तं विप्राः ! शृणुतादरात् ।
यथा च राक्षसो जातो मुनीनां शापवैभवात् ॥ २

पुरा वैकुष्ठसदृशे श्रीरते विष्णुमन्दिरे ।
बसिष्टात्रिमुखाः सर्वे विष्णुभक्ता महौजसः ॥ ३

श्रीरङ्गनाथं देवेशं भक्तानामभयप्रदम् ।
उपासाञ्चक्रिरे मुलचै श्रीरङ्गपुरवासिनः ॥ ४