पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१२८
श्रीवेङ्कटाचलमाहात्म्यम्



प्रचुक्रोश दयाम्भोधिं आपन्नानां परायणम् ।
नारायणं चक्रपाणिं रक्ष रक्षेति वै मुहुः ॥ ३४

‘वेङ्कटेश ! दयासिन्धो! शरणमगतपालक !।
त्राहि मां पुरुषव्याघ्र! रक्षवशमुपगतम् ॥ २५

लक्ष्मीकान्त ! हरे ! विष्णो ! वैकुण्ठ! गरुडध्वज!।
मां रक्ष रक्षसाऽऽक्रन्त ग्राह गज यथा B २६

दामोदर ! जगदथ! हिरण्यमुरमर्दन!।
प्रहृदमिव मां रक्ष राक्षसेनातिपीडितम् ॥ २७

पद्मनाभहननोद्युक्तासुरवधाय मगधकृतचक्रप्रेषणम्

इत्येवं स्तुवतस्तस्य पझनाभस्य हे द्विजाः!।
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिर्दयानिधिः । । २८

स्वचक्र प्रषयमास भक्तरक्षणकारणात् ।
प्रेरितं विष्णुचकं तत् विष्णुना प्रभविष्णुना। ॥२९

आजगामाथ वेगेन चक्रथुष्करिणीतटभ।
अनन्तादित्यसङ्काशं अनन्ताग्निसमप्रभम् ॥ ३०

महञ्चालं महानाद महमुरविमर्दनम् ।
दृष्ट्वा सुदर्शनं विष्णोः राक्षसोऽथ प्रदुद्रुवे ॥ ३१

भगवन्प्रेषितचक्रकृतासुरवधः



द्रवमाणस्य तस्याशु राक्षसस्य सुदनम् ।
शिरश्चकर्त सहसा ज्वालमालदुरासदम् ॥ ३२

ततो विप्रवरो दृष्ट्वा राक्षसं पतितं भुवि ।
मुदा परमया युक्तः तुष्टाव च सुदर्शनम् । ३३