पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
श्रीवेङ्कटाचलमाहात्म्यम्


पञ्चनभारूपद्विजकृतनपस्तुष्टभगत्रदाचिभ्यः

श्रीमून -- पुरा श्रीवत्सगोत्रीयः पद्मनाभो जितेन्द्रियः
चकपुष्करिणीतीरे सोऽतप्यत महत्तपः॥ ४

दयायुक्तो निराहारः सत्यवादी जितेन्द्रियः।
आत्मवत्सर्वभूतानि पश्यन् विषयनिःस्पृहः ॥ ५

सर्वभूनहितो दान्तः सर्वद्वन्द्वविवर्जितः।
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत् ॥ ६

कश्चिकाले जलहरो वायुभक्षः कियत्समाः ।
एवं द्वादशवर्षाणि पद्मनाभो महामुनिः ॥ ७

अतप्यत तपो घोरं देवैरपि सुदुकरम्।
अथ तत्तपसा तुष्टो भगवान् कमलापतिः ॥ ८

प्रत्यक्षतामगातस्य शङ्कचक्रगदाधरः ।
विकचाखुजपत्राक्षः सूर्यकोटिसमप्रभः ।
उन्मील्य चक्षुषी तत्र दृष्टवान् वेङ्कटेश्वरम् ॥ ९

शङ्कचक्रधरं शान्तं श्रीनिवासं कृपानिधिम् ।
दृष्ट देवं महामनं स्तोतुं समुपचक्रमे ॥ १०

पद्मनाभाय्यद्विजकृनश्रीनिवासम्तुतिः

नमो देवाधिदेवाय वेङ्कटेशाय शङ्किणे।
नारायणादिवासाय श्रीनिवासाय ते नमः ॥ ११

नमः कल्मषनाशाय वासुदेवाय विष्णवे ।
शेषाचलनिवासाय श्रीनिवासाय ते नमः ॥ १२

नमस्त्रैलोक्यनाथाय विश्वरूपाय साक्षिणे ।
शिवब्रह्मदिवन्द्याय श्रीनिवासाय ते नमः ॥ १३