पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
श्रीवेङ्कटाचलमाहात्म्यम्

आकाशगङ्गामाहात्म्यम्



श्रीमूतः अत्रेतिहासं वक्ष्यामि पुण्यशीलस्य धीमतः।
सनकुमारमुनये नारदेन प्रभाषितम् ।
तद्वक्ष्यामि मुनिश्रेष्ठाः ! शृणुचे सुसमाहिताः ॥ २३

पुरा गोदावरीतीरे सर्वधर्मपरायणः ।
पुण्यशीलो द्विजवरः सत्यवादी जितेन्द्रियः ॥ २४

दयावान् सर्वभूतेषु देवानिद्विजपूजकः ।
कर्मणा जन्मशुद्धश्च मातापितृहिते रतः ॥ २५

गुरुभक्तिः सदाक्षिण्ये ब्रह्मण्यः साधुसम्मतः ।
एतादृशगुणैर्युक्त:पुण्यशीलाय धीमतः ॥ २६

गृहं सम्प्राप्तवान् विप्रो वेदवेदङ्गपारगः ।
प्रार्थितः पुष्यशीलेन पितृश्राद्धेऽवेगतः ॥ २७

तं विप्रं श्रोत्रियं क्षतं पितृश्राद्धे नियोज्य वै ।
श्राद्धे चकार धममा प्रत्याब्दिकमनुत्तमम् ॥ २८

पुण्यशीलस्य घनध्यापतिनिमन्त्रणेन गर्दभमुखस्त्रप्राप्तिः



ततः कलान्तरे तस्य पुण्यशीलस्य चानने ।
वैरूप्यं प्राप्तमपुत्रं रासभाननवत्तदा ॥ २९

ततः खिन्नमना भूत्वा पुण्यशीलोऽतिधार्मिकः ।
निःश्वस्य बहुधा खिन्नः प्रपेदेऽगस्ययोगिनः ॥ ३०

सुवर्णमुखरीतीरे उषिसङ्घनिषेविते ।
आश्रमं परमं दिव्यं सर्वकामफलप्रदम् ॥ ३१