पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
श्रीवेङ्कटाचलमाहात्म्यम्


मातापित्रोश्च शुश्म कुर्वते ये नरोत्तमाः।
ये तु देवर्चनरता ये तु तत्साधका नराः।
पूजां दृष्ट तु मोदन्ते ते वै भगवतोतमाः ॥ ४०

कर्णिनाव यतीनाञ्च परिचर्यापराश्च ये।
परनिन्दामकुर्वाणाः ते वै भगवतोत्तमाः ॥ ४१

सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ।
ये गुणग्राहिणो लोके ते वै भागवतमः ॥ ४२

आत्मयत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ।
तुल्या: शत्रुषु मित्रषु ते वै भागवताः स्मृताः ।। ४३

धर्मशास्त्रप्रवरः सयवाक्यरताश्च यं ।
तेषां शुभ्रूषवो ये च ते वै भागवतमाः ॥ ४४

व्याकुवन्ति पुराणानि तानि शृण्वन्ति ये तथा।
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥ ४५

ये गोब्राह्मणशुभ्रूषां कुर्वन्त सततं नराः।
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः । ४६

अन्येषामुदयं दृष्ट येऽनिन्दन्ति मानवाः।
हरिनामपरा ये च ते वै भगवतोत्तमाः ॥ ४७

आरामारोपणरताः तटाकपरिरक्षकाः ।
कासारकूपकर्तारः ते वै भागवतोत्तमाः ॥ ४८

ये वै तटाककर्तारो देवसद्मनि कुर्युते।
गायत्रीनिरता ये च ते वै भागवतोत्तमः ॥ ४९

येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ ५०