नमस्तुभ्यं भगवते वासुदेवाय शार्जिणे ।
भूयो भूयो नमस्तुभ्यं वेङ्कटाद्रिनिवासिने ? ॥ १९,
इति स्तुत्वा वेङ्कटेशे श्रीनिवासं जगद्गुरुम् ।
रामानुजो मुनिस्तूर्णं आस्ते विप्रवरोत्तमः ॥ २०
श्रवा स्तुतिं श्रुतिमुखां हरिस्तस्य महमिनः ।
अवाप परमं तोषं वेङ्कटयचलनायकः ॥ २१
अथाऽलिङ्गय मुनिं शौरिः चतुर्भिर्बहुभिस्तदा।
बभाषे प्रीतिसंयुक्तो 'वरं वै म्रियतामिति ॥ २२
'तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि महामुने ।
नमस्कारेण च प्रीतो वरदोऽहं तवाऽगतः ॥ २३
रामानुजख्यविप्रकृतभगवप्रार्थना
रामान
नारायण रमानाथ श्रीनिवास जगन्मय!।
जनार्दन जगद्धाम गोविन्द नरकान्तक! ॥ २४
त्वद्दर्शनाकृतार्थोऽस्मि वेङ्कटाद्रिशिरोमणे !।
त्वां नमस्यन्ति धर्मिष्ठा यतवं धर्मपालकः ॥ २५
यन्न वेति भवो ब्रह्म यन्न वे त त्रयी तथा ।
त्वां वेद्मि परमामानं किमस्मादधिकं परम् ? ॥ २६
योगिनो ये न पश्यन्ति ये न पश्यन्ति कर्मयः ।
पश्यामि परमात्मानं विमस्मादधिकं परम् ? ॥ २७
एतेन च कृताथोंऽस्मि वेङ्कटेश जगत्पते !।
यन्नमस्मृतिमात्रेण महापातकिनोऽपि च ॥ २८
मुक्तिं प्रयान्ति मनुजाः तं पश्यामि जनार्दनम् ।
त्वत्पादपदयुगले निश्चला भक्तिरस्तु मे॥ २९