पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
श्रीवेङ्कटाचलमाहात्म्यम्


पापनाशम्य तीरे तु भूदानस्य प्रभावतः ।
तदा भद्रमतेः सौरैयाः स्तोतुं समुपचक्रमे ॥ ७०

नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलपालकाय ।
नमो नमस्तेऽमरनायकाय
नभो नमो दैत्यविमर्दनाय ॥ ७१

नमो नमो भक्तजनप्रियाय
नमो नमः पापविदारणाय ।
नमो नमो दुर्जननशक्रय
नमोऽस्तु तस्मै जगदीश्वराय ॥ ७२

नमो नमः कारणवामनाय
नारायणायामितविक्रमाय ।
श्रीशङ्कचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ७३

नमः पयोराशिनिबासकाय
नमोऽस्तु ललीपतयेऽव्ययाय ।
नमोऽस्तु भूयोद्यमितप्रभाय
नमो नमः पुण्यगतागताय ॥ ७४

नमो नमोऽन्दुविलोचनाय
नमोऽस्तु ते यज्ञफलप्रदाय ।
नमोऽस्तु यज्ञाङ्गविराजिताय
नमोऽस्तु ते सज्जनवलभाय ॥ ७५

नमो नमः कारणकारणाय
नमोऽस्तु शब्दादिविवर्जिताय ।