पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
श्रीस्कान्दपुराणे दशमोऽध्यायः


स्वल्पामपि महीं दत्त्व श्रोत्रियायाऽहिताग्नये ।
ब्रह्मलोकमवाप्नोतेि पुनरावृत्तिवर्जितम् ॥ ३७

भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाक् भवेत् ।
भूमिदानं वृषादौ च सर्वपापप्रणाशनम् ॥ ३८

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
दशहस्तनं महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥ ३९

सत्पात्रे भूमिदाता यः सर्वदानफळ लभेत् ।
भूमिदस्य समो नन्यः त्रिषु लोकेषु विद्यते ।। ४०

द्विजम्य वृत्तिहीनस्य यः प्रदद्यान्महीं शुभाम् ।
तस्य पुण्यफल वक्तुं शेषो नार्हः कदाचन ॥ ४१

विप्रस्य वृत्तिहीनस्य सदाचारस्य कस्य चित् ।।
योऽल्पामपि महीं दद्यात् स विष्णुर्नात्र संशयः ॥ । ४२

इक्षुगोधूमकेदारपूगवृक्षादिसंयुता ।
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥ ४३

वृत्तिहीनस्य विप्रस्य दरिद्रय कुटुम्बिनः ।
स्वल्पामपि महीं दत्वा । विष्णुसायुज्यमनुते ॥ ४४

सक्तस्य देवपूजासु विप्रस्याटविका मही ।
दत्ता भवति गङ्गायां त्रिरात्रस्नानजं फलम् ॥ ४५

विप्रस्य वृत्तिहीनस्य सदाचाररतस्य च ।
द्रौणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु ॥ ४६

गातीरेऽश्वमेधानां शतानि विधिवन्नरः।
कृत्वा यत्फलमाप्नोति तदानति महत्फलम् ॥ ४७

ददाति भारिकां भूमिं दरिद्राय द्विजातये ।
तस्य पुण्यं प्रवक्ष्यामि मन्नाथ! भगवन् ! प्रभो! ॥ ४८