पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१०८
श्रीवेङ्कटाचलमाहात्म्यम्



तस्य तीर्थस्य माहात्म्यं नारदेन श्रुतं मया।
बालभावे मम पितुरन्तिके प्रोक्तवान् मुनिः ॥ २६

‘वेह्याद्रीौ महपुण्ये सर्वपातकनाशने । ।
सर्वदुःखप्रशमने सर्वसम्पत्प्रदायके ॥ २७

पापनाशे महातीर्थे स्नात्वा सङ्कल्पपूर्वकम् ।
अयैश्वर्यप्रदं धर्मे मनसा चिन्तयंस्तदा ॥ २८

भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ।
प्रापकं परलोकस्य सर्वकामफलप्रदम् ॥ २९

दानानामुत्तमं दानं दानं परिकीर्तितम् ।
तद्दत्वा समवाप्नोति यद्यदिष्टमं नरः ॥ ३०

इत्येवं नारदेनं क्तं श्रुत्वा मे जनको द्विजः ।
सम्प्रहृष्टमना भूत्वा शेषाद्रिं प्राप्तवांस्तदा ॥ ३१

तत्र गत्वा महाभागः सर्वसम्पप्रदायकम् ।
भूदानं विप्रवर्याय श्रोत्रियाय प्रदत्तवान् ॥ ३२

ततो मे जनको विद्वन् ! सर्वभयसमन्वितः ।
इह लोके सुखं प्राप्य चान्ते विष्णुपुरं ययौ ॥ ३३

वश्व गवा महाभाग! वेङ्कटाद्रिं नगोत्तमम् ।
कुरु दान प्रयलेन भूदान सर्वकामदम् ॥ ३४

कामिनीकथितभूदानप्रशंसा।



भूमिदानस्य माहाल्यं शृणुष्व सुसमाहितः।
न कोऽपि गदितुं शक्तो लोकेऽस्मिन् भगवन् ! प्रभो ॥ ३५

भूमिदानात् परं दानं न भूतं न भविष्यति ।
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ॥ ३६