पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
श्रीस्कान्दपुराणे दशमोऽध्यायः


एश्वर्यगुणयुक्तश्च पूज्य एव न संशयः ।
अहो दरिद्रता दुःखं तत्राव्याशऽतिदु खदा ।
आशाभिभूनाः पुरुषाः दुःखमभुवते क्षणात्॥ १६

आशया दास ये दासाः ते सर्वलोकय ।
आश दासी येषां तेषां दासायते लोकः ॥ १७

सर्वशास्त्रार्थवेत्ताऽपि दरिद्रो भानि मूर्ववत् ।
आकिञ्चन्यमहाग्राहग्रस्तानां नास्ति मोचकः ॥ १८

अहो दुःखमहो दुःखमहो दुःख दरिद्रता।
तत्रापि पुत्रदाराणां चाहुल्यमतिदुःखदम् ॥ १९

एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ।
अन्यैश्वर्यपद धर्मे मनसा चिन्तयंस्तदा ।
तूष्णीं स्थित भद्रमतिः महाक्लेशसमन्वितः । २०

भद्रमतेः कामिनीकुन घेङ्कटाद्रिगमनप्रोत्साहनम् ।

तदानीं तासु भार्यासु कामिनी पतिदेवता।
भार्या साधुगुणैर्युक्त पतिं तं प्रत्यभाषत। । २१

कामनी

'भगवन् ! सर्वधर्मज्ञ ! सर्वशास्त्रार्थपारग ! ।
मम नाथ ! महाभाग! वचयं शृणु महामते ॥ २२

सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते ।
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचल ॥ २३

तस्मिन् वेङ्कटशैलेन्दे मुरासुरनमस्कृते ।
गर्तते पवनं तीर्थं पापानां दाहकं शुभम् ॥ २४

तत्र गत्वा महाभाग पापनाशे महामते!।
कुरु ज्ञानं प्रयलेन भायपुत्रसमन्वितः ॥ २५