पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
श्रीवेङ्कटाचलमाहात्म्यम्


वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ।
स्वामिपुष्करिणीतीर्थे स्नात्वा नियमपूर्वकम् ॥ १४

पिण्डदानं ततः कुर्यात् अपि सर्षपमात्रकम् ।
शमीदलसमानान्वा दद्यात् पिण्डान् पितृन् प्रति ।
स्वर्गस्था मोक्षमायान्ति स्वर्गं नरकवासिनः ॥ १५

पापविनाशनाख्यतीर्थमाहात्म्यम्



ततस्तस्योपरि महत् सर्वलोकेषु विश्रुतम् ।।
सर्वतीर्थात्तमं पुण्यं नान्न पापविनाशनम् ॥ १६

अति पुण्यतमे विप्राः ! पवित्रे वेङ्कटाचले ।
यस्य संसरणादेव गर्भवासो न विद्यते ॥ १७

नमप्य तु नरः स्रयात् स्वामितीर्थस्य चोत्तरे ।
तत्र स्नानन्नर याति वैकुण्ठ नात्र संशयः ॥ १८

कषायं

मूत! पापविनाशाख्यतीर्थस्य बृहे वैभवम् ।
व्यासेन बोधितस्वं हि वेत्सि सर्वं महामुने !॥ १९

श्रीसूतः

प्रेक्षाऽश्रमपदे वृत्तां पञ्च हिमवेत शुभं ।।
वक्ष्यामि ब्राह्मणश्रेष्ठाः ! युष्माकन्तु कथां शुभाम् ॥ २०

तदश्रमपद पुष्य ब्रह्माऽश्रमपद शुभम् ।
नानावृक्षसमाकीर्णं ५वें हिमवतः शुभे ॥ २१

बहुगुल्मलताऽऽकीर्ण मृगद्विपनिषेवितम् ।।
सिद्धचारणसङ्घुष्टं रस्य पुष्पतकाननम् ॥ २२

यतिभिर्बहुभिः कीर्ण तापसैरुपशोभितम् ।
ब्राह्मणैश्च महाभगैः सुर्यज्यरूनसन्निभैः ।। २३