पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
श्रीस्कन्दपुराणे षष्ठोऽध्यायः


तेन प्रस्ताखिलागास्तु त्वक् च गृहगोधिका ।
रूपं कमचितं घोरं सद्योऽदृश्यत पूरुषः ॥ ४०

दिव्यं विमानमारूढो दिव्यस्रवलभूषणः
पश्यतामेव साधूनां मैथिलस्य गृह्यन्तरे ॥ ४१

बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ।
भनुज्ञातो ययौ राजा स्तूयमानेऽमरैर्दिवम् ॥ ४२

तत्र भुक्ता महाभोगान् वर्षायुतमतन्द्रितः।
स एव चेक्ष्वाकुकुले ककुत्स्थोऽभून्महारथः ॥ ४३

सप्तद्वीपप्रतीपालो ब्रक्स्रण्यः साधुसम्मतः ।
देवेन्द्रस्य सखा विष्णो: अश एवं महाप्रभुः ॥ ४४

बोधितस्तु वसिष्ठेन सर्वान् धर्मान् मनोहरान् ।
अनुष्ठायाखिलान् राजा तेन ध्दस्ताशुभादिकः ॥ ४५

दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् ।
तस्माद्वेङ्कटशैलेन्द्रः पुष्यपापविनाशनः ।। ४६

तस्मिथ जल्दानन्तु विष्णुलोकप्रदायकम् ।
एवं वः कथितं विप्राः जलदानस्य वैभवम् ।
वेटादौ महापुण्ये सर्वर्तकनाशने ॥ ५७

इति श्रीस्कान्दपुराणे श्रीवेयाचलमाहाल्ये जलदानवैभव


वर्णनं नाम षष्ठोऽध्यायः ।