पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
श्रीवेङ्कटाचलमाहात्म्यम्



न करणं प्रपश्यामि तन्मे वितरतो वद। ।
इत्युक्तः स द्विजः प्राह ज्ञानं विज्ञानचक्षुषा ॥ २९

श्रुतदेवदतपुण्येन हेमाङ्गस्य गोधिकायविमुक्तिः



श्रुणु भूप! प्रवक्ष्यामि तव दुर्गतिकारणम्
न जलतु त्वया दत्त वेङ्कटाऽह्यभूधरे ॥ ३०

तजलं सुलभं मत्वा न मौल्यमिति निश्चितः ।
नाध्वगानां द्विजातीनां घर्मकालेऽप्यजानता ॥ ३१

तथा पात्रं समुत्सृज्य पाने प्रतिपादितम् ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ३२

तुलसीं तु समुत्सृज्य वृइती पूज्यते नु किम् ?।।
अनाथम्यङ्गपाङ्गत्वं न प्रयोजकतामियात् ॥ ३३

पाद्ययेऽप्यनाथा हि दयापानं हि केवलम् ।
तपोनिष्ठ ज्ञाननिष्ठा श्रुतिशास्त्रपरायणः ॥ ३४

विष्णुरूपाः सदा पूज्याः नेतरे तु कदाचन।
तत्रापि ज्ञानिनोऽत्यर्थं प्रिया विष्णोः सदैव हि ॥ ३५

ज्ञानिनामपि भूपालविष्णुरेव सदा प्रियः ।
तस्माज्ज्ञानी सदा पूज्यः पूज्यात् पूज्यतरः स्मृतः ॥ ३६

न जलन्तु वयदत्ते साधवो वा न सेविताः |
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनन्दन!॥ ३७

वेद्यतैौ कृतं पुण्यं तुभ्यं दास्यामि शान्तये ।
भूतं भव्यं भवत् तेन कर्मजाले विजेष्यसि ॥ ३८

इत्युक्तूIऽप उपस्पृश्य ददौ पुण्यमनुत्तमम् ।
यद्दतं ब्राह्मणे वापि मानं चैकदिने कृतम् ॥ ३९