पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


८७
श्रीस्कान्दपुराणे षष्ठोऽध्यायः


तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः।
मधुपर्छः सुसम्पूज्य तस्य पादावनेजनीः ॥ १७

अपो मृद्भऽवहत् क्षितैिः तदोत्क्षिमैश्च बिन्दुभिः ।
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका ॥ १८

सद्यो जातिस्मृतिरभूत् कृतकर्माऽतिदु खिता।
'श्राहि त्राहीति चुक्रोश ब्राहणं गृहमागतम् ॥ १९

तिर्यजतुरवं श्रुत्वा ब्राक्षो विस्मितोऽभवत् ।
'कुतः कोशसि गोधे ! त्वं दशेयं केन कर्मणा ॥ २०

उपदेवोऽथ देवो वा त्वं नृपोऽथ द्विजोत्तम!।
कस्त्वं ब्रूहि महाभाग! त्वामद्यहं समुद्धरे ॥ २१

इत्युक्तः स नृपः प्राह श्रुतदेवं महाप्रभुः ।
अहमिक्ष्वाकुकुलजः शस्त्रविद्याविशारदः ॥ २२

याक्तो भूमिकणिका यावन्तस्तोयबिन्दवः ।
यावन्युद्दनि गगने तावतीर्गाः भदामहम् ॥ २३

सर्वयज्ञमया चेष्टं पूर्तान्याचरितानि मे ।
दानान्यपि च दतानि धर्मजातं स्वनुष्ठितम् ॥ २४

तथाऽपि दुर्गतिर्जाता न मे चोध्र्वगतिर्विभो!।
त्रिवारं चातकत्वं मे गृध्रवचैकजन्मनि ॥ २५

सप्तजन्मसु च धत्वं प्राप्तं पूर्वं मया द्विज!।
धरताऽनेन भूपेन चापः पादावनेजनीः ॥ २६

बिन्दवो दूरसं क्षिप्तः तैः सिक्तोऽहं कथञ्चन।
तदा जन्मस्मृतिरभूत् तेन मे हतशुष्मनः ॥ २७

गोधाजन्मानि भव्यानीत्यष्टाविंशति मे द्विजः !
दृश्यन्ते वैबदिष्टानि बिभ्यते जन्मभिभृशम् ॥ २८