पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
श्रीवेङ्कटाचलमाहात्म्यम्



येनेष्टयज्ञदमैश्च भूमिर्नर्हिष्मती स्मृता ।
गोभूतिलहिरण्याक्षैः तं पिता बहवो द्विजाः ॥ ६

तेनादतानि दानानि न विद्यन्त इति श्रुतम् ।
तेनादत्तं जलवैकं सुखलस्थधिया द्विजाः ! ॥ ७

बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ।
अमूल्यं सर्वं लभ्यं तदातुः किं फलं लभेत्।॥ ८

इति दुर्घः हेतुवादैः न जलं दत्तवान् विभुः।
अलभ्यदाने पुष्यं स्यात् इत्यवादीत् सयुक्तिकम् ॥ ९

स आनर्च द्वजान् व्यञ्जन् दरिद्रान् वृत्तिकर्शितान् ।
नानर्च श्रोत्रियान् विप्रान् ! ब्रह्मज्ञान्! ब्रह्मवादिनः ॥ १०

प्रख्यातान् पूजयिष्यन्ति सर्व लोकाः सहार्हणैः।
अनाथानामविद्यानां व्यञ्जानश्च कुडुम्बनाम् ॥ ११

दरिद्राणां गतिः न वा ? तस्माते मद्दयाSSस्पदाः।
इति दुष्टेषु पत्रेषु दतवान् किमपि स्वकम् ॥ १२

तेन दोषेण महता चातत्वं त्रिजन्मसु ।
एकजमनि गृध्रवं धत्वं वा सप्तजन्मसु ॥ १३

प्राप्य पञ्चगृहे जातो भूयोऽयं गृहगोधिका ।
श्रुतकीस्तु भूय मिथिलाधिपतेर्देशः! ॥ १४

गृहद्वारमनोल्यां च वर्तते कीटकशनः ।
अष्टाशीतिषु वर्षेषु स्थितं तेन दुरात्मना ॥ १५

श्रुतदेवपादोदकसेवनेन हेमङ्गस्य जातिस्मरणम्



विदेहाधिपतेर्गेहं कदाचिदृषिसत्तमः ।
श्रुतदेव इति ख्यातः अतो भयाद् आगमत् ॥ १६