पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
अथ पञ्चमोऽध्यायः


***


रामकृष्णतीर्थमाहात्म्यम्



श्रीमूतः- वेङ्कटाख्ये महापुण्ये सर्वपातकनाशने ।
6 तूणीर्थस्य माहाल्यं शृणुत्वं सुसमाहितः । । १

त्र मजनमात्रेण कृतनोऽपि विमुच्यते ।।
पितृन् मातुः गुब्धावमन्यन्ते मोहेमोहिताः ॥ २

ये चाप्यन्ये दुरात्मनः कृतझा निरपत्रपाः ।
ते सर्वे कृष्णतीर्थेऽस्मिन् शुद्धञ्चति ज्ञानमात्रतः ॥ ३

कृष्णनामा मुनिः पूर्वं वेध्यहृयश्वरे ।
भवर्तत तपः कुर्वन् विष्णु ध्यायन् समाहितः ॥ ४

स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ।
तत्र स्नात्वा सकृन्मर्यः कृतोऽपि विमुच्यते ॥ ५

अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ।
यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात् ॥ ६

पुरा बभूव विप्रेन्द्रो रामकृष्णो महामुनिः।
सत्यवाक् शीलमेवान् वामी सर्वभूतदयाऽन्वितः ।। ७

शत्रुमित्रसमोदासः तपस्वी विजितेन्द्रियः ।
परे ब्रह्मणि निष्णातो ब्रह्मतत्त्यकसंश्रयः ॥ ८

एवं प्रभावः स मुनिः तपस्तेपे सुदारुणम् ।
स वै निश्चछसर्वाः तिष्ठन् सर्वत्र भूतले ॥ ९

परमाण्वन्तरं वापि न स्वस्थानचचाल सः।
स्थित्वा तत्र तपस्यन्तं अनेकलातवस्सरान् ॥ १०

तं चाक्रमत वल्मीकं छदितानं चकार वै ।
वल्मीकऽक्रान्तदेहोऽपि रामकृष्णो महामुनिः ॥ ११