सामग्री पर जाएँ

पृष्ठम्:श्रीललितासहस्रनाम.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

XI

कृतज्ञताविष्करणम्

एतत्पुस्तकसम्पादने कावेंटिनगरसंस्थानस्य, निर्णयसागरमुद्रणालयस्य अडयारस्थदिव्यज्ञानसमित्याश्च संस्करणानि पाठसंवादार्थं यथावसरं मया समुपयुक्तानि। तदर्थं तत्तदधिकारिभ्यः नितरामहं कृतज्ञः। अस्मिन् व्यतिकरे ललितानामसहस्रभाष्यस्य निर्णसागरसंस्करणप्रदानेन, कावेंटिनरगसंस्थानसंस्करणप्रदानेन च सदयं मामनुगृहीतवन्तः क्रमेण प्रियसुहृन्मणयः प्रो० एम्० डिः बालसुब्रह्मण्यमहोदयाः (प्राचार्याः केन्द्रीयसंस्कृतविद्यापीठम्, तिरुपति) प्रो०पि० श्रीरामचन्द्रुडु महाभागाः (आचार्याः संस्कृतविभागः, उस्मानिया विश्वविद्यालयः, हैदराबाद्)। तदर्थं सनमोवाकं कार्तज्ञ्यमाविष्करोमि। सौभाग्यभास्करवैशिष्ट्यमधिकृत्य स्वप्रकटितं पत्रं प्रेषितवतां प्रियसुहृन्मणीनां प्रो० पि० जि० लालेमहोदयानां (आचार्याः, संस्कृतविभागः, उस्मानिया विश्वविद्यालयः, हैदराबाद्) भृशं कृतज्ञोऽसौ जनः ।

महता परिश्रमेण सम्पादितमिमं ग्रन्थं प्रकटनाय स्वीकृतवतां तदानीन्तनकार्यनिर्वहणाधिकारिणां श्रीमतां पि० वि० आर्० के प्रसादमहोदयानां, तथा अद्यतनकार्यनिर्वहणाधिकारिणां श्रीमतां एस्० लक्ष्मीनारायणमहोदयानां च हार्दं कार्तज्ञ्यमाविष्करोमि।

मुद्रणकार्यं सप्रेम निर्वर्तितवते प्रियमित्राय श्री एम्. विजयकुमाररेड्डिमहोदयाय तथा उपकृतवते श्राी एम्० गोपालरेडुिनाम्ने तत्सहकारिबृन्दाय च कृतज्ञोऽयं जनः। सावधानं शोधने कृतेऽपि तत्र तत्र स्खालित्यानि अवस्थितान्येव । अतः पाठका याच्यन्ते मर्षणाय ।

ललिता परमेश्वरी कृपाकलिता रक्षतु भक्तमण्डलीम्।

क्रोधनवत्सरादिः २२. ३. १९८५

-एस्० बि० रघुनाथाचार्यः