पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४ सर्गः]
439
प्राहिण्वन् तस्य नाशार्थे रंभां अप्सरसं सुराः

 अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ।

 अहं कोकिलो भूत्वा माघवे–वसन्ते, स्थिते सतीति शेषः ॥

 त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ॥ ६ ॥
 तमृषिं कौशिकं रम्भे ! भेदयस्व तपस्विनम् ।

 रूपं-सौन्दर्यं बहुभिः-[१]हावभावादिभिः गुणैरुपेतं, मत्वर्थीयोऽजन्तः । भेदयस्व-काममोहोत्पादनेन तपसश्चित्तं चालय ॥ ६ ॥

 सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ॥ ७॥
 [२]लोभयामास ललिता विश्वामित्रं शुचिस्मिता ।

 ललिता-सुन्दरी ॥ ७ ॥

 कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ॥ ८ ॥
 संप्रहृष्टेन मनसा तत एनामुदैक्षत ।

 विश्वामित्रसंप्रहर्षः–कोकिलस्वनानुभवजसन्तोषः । ततः-तस्मादेव हेतोः ॥ ८ ॥

 अथ तस्य च शब्देन गीतेनाप्रतिमेन च ॥ ९ ॥
 [३]दर्शनेन च रम्भाया मुनिः सन्देहमागतः ।

 तस्य—कोकिलस्य वसन्तरूपस्य । [४]सन्देहमिति । इयं स्वेच्छया समागता ! आहोस्विदिन्द्रादिप्रेरिता वेत्येवं रूपम् ॥ ९ ॥


  1. हासभावा-क. ग.
  2. एतदनन्तरं-कोकिलो रुचिरग्राही भेदयामास वै मुनिम्-इत्यधिकं-झ.
  3. एतदनन्तरं–ध्यात्वा मुहूर्ते तेजस्वी दण्डाहत इवोरगः । त्रसन् क्रोधसमाविष्टो विपर्व इव भानुमान्-इत्यधिकं क्वचित्-ङ.
  4. पूर्वं मेनकाविषयानुभवात्, किमियं मत्तपोनाशनोद्देशेनैव समागता स्यादिति संशयः