पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
438
[बालकाण्डः
रम्भाशापः

चतुष्पष्टितमः सर्गः

[ रम्भाशापः ]

 सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।
 लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ १ ॥

 लोभनं-प्रतारणम् । काममोहेन–कामजनितचित्तवैवश्येन समन्वितम् ॥ १ ॥

 तथोक्ता साऽप्सरा राम ! सहस्राक्षेण धीमता ।
 व्रीळिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥ २ ॥

 व्रीळितेति । अशक्यार्थतोऽसामर्थ्यवचनानिमित्ता व्रीळा ॥ २ ॥

 अयं सुरपते ! घोरो विश्वामित्रो महामुनिः ।
 क्रोधमुत्सृजते घोरं मयि देव ! न संशयः ॥ ३ ॥
 [१]ततो हि मे भयं, देव ! प्रसादं कर्तुमर्हसि ।

 प्रसादमिति । एवमनियोगरूपमित्यर्थः ॥ ३ ॥

 तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ॥ ४ ॥
 [२][३]मा भैषी रम्भे ! भद्रं ते, कुरुष्व मम शासनम् ।

 माभैषी रम्भे भद्रमिति । गुरुरार्षः ॥ ४ ॥

 [४]कोकिलो हृदयग्राही [५]माधवे रुचिरद्रुमे ॥ ५ ॥


  1. एतदनन्तरं–एवमुक्तस्तया राम ! रम्भया भीतया तदा ॥ इत्यधिकं-ङ. ज.
  2. मा भैषीस्त्वं वरारोहे-झ.
  3. 'मा भैषि रंभे' इत्यत्र आर्षो ह्रस्वः-गो.
  4. हृदयग्राही कोकिलः माधवे-वसन्ते रुचिरद्रुमे-स्थास्यतीति शेषः-शि. 'अहं कोकिलो भूत्वा स्थास्यामि इति व्याख्याने तु 'माधवे रुचिरद्रुमे' इत्यस्यानन्वयः, तव पार्श्वतः ' इति स्थानवचनात् । अध्याहारादिक्लेशश्च । पाठान्तरे तु-हृदयग्राही कोकिलः स्थास्यति, रुचिरद्रुमः माधवः
    स्थास्यति, अहं कन्दर्पसहितः स्थास्यामीत्यन्वयः
  5. माधवो रुचिरद्रुमः-ङ. झ.