पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
288
[बालकाण्डः
उमा गङ्गोत्पत्तिकथनम्

 ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
 जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ ६॥
 तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
 बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥ ७ ॥

सारसः-xxxxxx ॥ ७ ॥

 [१][२]सरस्तीरे ततश्चक्रुः त आवासपरिग्रहम् ।

 आवासाय परिगृह्यत इति आवासपरिग्रहः, सम्मार्जनादिना आवासस्थानञ्चक्रुरिति यावत् ॥

 अथ स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥ ८ ॥
 हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
 विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ॥ ९ ॥
 [३]विश्वामित्रं महात्मानं परिवार्य समन्ततः ।

 अमृतवत्-अमृततुल्यं हविः-पञ्चयज्ञाद्यवाशिष्टमन्नं ; हि तथा 'यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्' इति ॥ ९ ॥

 अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ॥ १० ॥
 भगवन् ! श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
 त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ ११ ॥

 गङ्गां श्रोतुमिति । गङ्गाविषयकं किञ्चित् श्रोतव्यमिति यावत् । किं तदित्यतः-त्रैलोक्येत्यादि । त्रैलोक्यमाक्रम्येति । स्वकम्स्रोतोभेदेनेति शेषः ॥ ११ ॥


  1. एतदनन्तरं एवमुक्ता महर्षयो विश्वामित्रेण धीमता । पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ इति श्लोकः अधिकः कुत्रचित्-ङ.
  2. तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम्-ज.
  3. एतदनन्तरं-विष्ठिताश्च यथान्यायं
    राघवौ च यथार्हतः । इत्यधिकम्-ङ.