पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३६
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता विना । नुद त्वं नो भयं देव नीहारमिव भास्करः॥१८॥
इत्येवं दैवतैरुक्तो देवदेवो जानार्दनः । अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ॥१९॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्वास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥२०॥
तानहं समतिक्रान्तमर्यादान राक्षसाधमान् । निहनिष्यामि संक्रुद्धः सुरा भवत विज्वराः ॥२१॥
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुहृष्टाः प्रशंसन्तो जनार्दनम् ॥ २२॥
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २३॥
अमरा ऋषयश्चैव संगम्य किल शङ्करम् । अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥२४॥
सुकेशतनया देव वरदानबलोद्धताः । बाधन्तेऽस्मान् समुद्दृप्ता घोररूपाः पदे पदे ॥२५॥
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते । स्वेषु सद्मसु संस्थातुं भयातेषां दुरात्मनाम् ॥२६॥
तदसाकं हितार्थाय जहि तांश्च त्रिलोचन । राक्षसान् हुंकृतेनैव दह प्रदहतां वर ॥२७॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः । शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ २८॥
अवध्या मम ते देवाः सुकेशतनया रणे। मन्त्रं तु वः प्रदास्यामि यस्तान् वै निहनिष्यति ॥
योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । हरिनारायणः श्रीमाञ्शरणं तं प्रपद्यथ ॥ ३० ॥
हरादवाप्य ते मन्त्र कामारिमभिवाद्य च । नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥ ३१॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः । मुरारीस्तान् हनिष्यामि सुरा भक्त विज्वराः ॥३२॥
देवानां भयभीतानां हरिणा राक्षसर्पभौ। प्रतिज्ञातो वधोऽस्माकं चिन्त्यतां यदिह क्षमम् ॥३३॥
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् । दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति ॥३४॥
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः । ऊचतुभ्रातरं ज्येष्ठमश्विनाविव वासवम् ॥३५॥
स्वधीतं दत्तमिष्टं चाप्यैश्चर्यं परिपालितम् । आयुनिरामयं प्राप्तं मुधर्मः प्रापितः पथि ॥३६॥
देवसागरमक्षोभ्यं शस्त्रैः समक्गाह्य च । जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥३७॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा । अस्माकं प्रमुख स्थातुं सर्वे बिभ्यति सर्वदा ॥ ३८॥
विष्णोर्द्वषस्य नास्त्येव कारणं राक्षसेश्वर । देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ३९॥
तस्मादध समुद्युक्ताः सर्वसैन्यसमावृताः । देवानेव जिघांसाम येभ्यो दोपः समुत्थितः ॥ ४०॥

.