पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३५
षष्ठः सर्गः


अपत्यं कथ्यमानं तु मया त्वं शृणु राघव।अनिलश्चानलश्चैव हरः सम्पातिरेव च॥४४॥
एते विभीषणामात्या मालेयास्तु निशाचराः ॥

  ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः।
  सुरान् सहेन्द्रानृषिनागयक्षान् बबाधिरे तान् बहुवीर्यदर्पिताः ॥४५॥
  जगद्भ्रमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।
  वरप्रदानादतिगर्विता भृशं ऋतुक्रियाणां प्रशमंकराः सदा ॥४६॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां

उनरकाण्डे माल्यवदाद्यपत्योत्पत्तिर्नाम पञ्चमः सर्ग: ॥





षष्ठः सर्गः

विष्णुमाल्यवदादियुद्धम्


तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥१॥
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् । आधारं सर्वलोकानामाराध्यं परमं गुरुम्॥२॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् । ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः॥३॥
सुकेशपुत्रैर्भगवन् पितामहवरोद्धतैः । प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥४॥
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः । स्वर्गाच्च देवान् प्राच्याव्य स्वर्गे कीडन्ति देववत्॥५॥
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥६॥
इति माली सुमाली च माल्यवांश्चैव राक्षसाः । बाधन्ते समरोद्धर्षा ये च तेषां पुरस्सराः॥७॥
तन्नो देव भयार्तानामभयं दातुमर्हसि । अशिवं वपुरस्थाय जहि वै देवकण्टकान् ॥८॥
इत्युक्तम्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान् प्रभुः ॥९॥
अहं तान्न हनिष्यामि मयावध्या हि तेऽसुराः । किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥१०॥
एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णुं हनिष्यति स तान् प्रभुः ॥ ११॥
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् । विष्णोः समीपमाजग्मुर्निशाचरभयादिताः ॥१२॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च । ऊचुः संभ्रांतवद्वाक्यं सुकेशतनयान् प्रति ॥ १३॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंन्निभैः । आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥१४॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता । तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः॥१५।
स त्वमस्मद्धितार्थाय जहि तान् मधुसूदन । शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर' ॥१६॥
राक्षसान् समरे दुष्टान् सानुबन्धान् मदोद्धतान् । चक्रकृत्तास्यकमलान्निवेदय यमाय वै ॥१७॥