पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३३
पञ्चमः सर्गः


कारुण्यभावात् पार्वत्या भवस्रिपुरसूदनः। तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ॥ २९ ॥
अमरं चैव तं कृत्वा महादेवोऽक्षरोऽव्ययः । पुरमाकाशगं प्रादात् पार्वत्याः प्रियकाम्यया ॥ ३० ॥
उमयापि वरो दत्तो राक्षसानां नृपात्मज । सद्योपलब्धिगर्भस्य प्रसूतिः सद्य एव च ॥ ३१ ॥
सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् ॥

  ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।०
  चचार सर्वत्र महान् महामतिः खगं पुरं प्राप्य पुरंदरो यथा ॥ ३२ ॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां

उत्तरकाण्डे रावणादिपूर्वतनराक्षसोत्पत्तिकथनं नाम चतुर्थः सर्ग:

-




पञ्चमः सर्गः

माल्यवदाद्यपत्योत्पत्तिः

सुकेशं धार्मिक दृष्ट्वा वरलब्धं च राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥
तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ॥ २ ॥
तां सुकेशाय धर्मेण ददौ रक्षः श्रियं यथा । वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ॥ ३ ॥
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः । स तया सह संयुक्तो रराज रजनीचरः ॥ ४ ॥
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः। देववत्यां सुकेशस्तु जनयामास राघव ॥ ५ ॥
त्रीन् पुत्राञ्जनयामास त्रेताग्निसमविग्रहान्। साल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥ ६ ॥
त्री त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः । त्यो लोका इवाव्यमाः स्थितास्त्रय इवामयः॥ ७ ॥
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः। त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः॥ ८ ॥
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव । वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं तपोबलात् ॥ ९ ॥
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः । प्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम ॥ १० ॥
विचेरुस्ते तपो घोरं सर्वभूतभयावहम् । सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ॥ ११ ॥
सन्तापयन्तस्त्रीललोकान् सदेवासुरमानुषान् । ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ॥ १२ ॥
सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत । ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृत्तम् ॥ १३ ॥
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः । तपसाराधितो देव यदि नो दिशसे वरम् ॥ १४ ॥
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः । प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १५ ॥
एवं भविष्यतीत्युक्त्वा सकेशतनयान विभृः । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १६ ॥