पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३०
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः । सापि तत्रावसत् कन्या तोषयन्ती पतिं गुणैः ॥ २८ ॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥
परितुष्टोऽस्मि सुश्रोणि गुणानां संपदा भृशम् । तस्माद्दवि ददाम्यद्य पुत्रमात्मसमं तव ॥ ३० ॥
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् । यस्मात्तु विश्रुतो वेदस्त्वयैषो'ऽध्ययतो मम ॥ ३१ ॥
तस्मात् स विश्रवा नाम भविष्यति न संशयः। एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥३२ ॥
अचिरेणैव कालेनासूत विश्रवसं सुतम्। त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ३३ ॥
श्रुतिमान् समदर्शी च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ३४ ॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे पौलरस्योत्पत्तिर्नाम द्वितीयः सर्ग:




तृतीयः सर्गः

वैश्रवणलोकपालपदलxकादिप्राप्तिः


अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः। अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥
सत्यवाञ्शीलवाञ्शान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः । ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ॥ ३ ॥
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा। प्रजान्वेषिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ॥ ४ ॥
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तम्यां वीर्यसंपन्नमपत्यं परमाद्भुतम् ॥ ५ ॥
जनयामास धर्मज्ञः सर्वैब्रह्मगुणैर्युतम् । तम्मिञ्जाते तु संहृष्टः संबभूव पितामहः ॥ ६ ॥
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति । नाम तस्याकरोत् प्रीतः सार्धं देवर्षिभिस्तदा ॥ ७ ॥
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः ॥ ८ ॥
स तु वैश्रवणस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुतो महातेजा यथानलः ॥ ९ ॥
तम्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः । चरिष्ये परमं धर्म धर्मो हि परमा गतिः ॥ १० ॥
स तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ॥ ११ ॥
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् । जलाशी मारुताहारो निराहारस्तथैव च ॥ १२ ॥
एवं वर्षसहस्राणि जम्मुस्तान्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ॥ १३ ॥
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत ॥ १४ ॥
वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते । अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ॥ १५ ॥