पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२९
द्वितीयः सर्गः


द्वितीयः सर्गः

पौलस्त्योत्पत्तिः

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयो निर्महातेजा राममेतदुवाच ह ॥ १ ॥
शृणु राम यथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून् येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥
तावत्ते रावणस्येदं कुलं जन्म च राघव । वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः । पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ४ ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा । प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥
प्रजापतिसुतत्वेन देवानां क्लभी हि सः। इष्टः सर्वस्य लोकम्य गुणैः शुभ्रैर्महामतिः ॥ ६ ॥
म तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः। तृणबिन्द्वाश्रमं गत्वा न्यबसन्मुनिपुङ्गवः ॥ ७ ॥
तपस्तपे स धर्मान्मा स्वाध्यायनियतेन्द्रियः । गत्वाश्रमपदं तम्य विघ्नं कुर्वन्ति कन्यकाः ॥ ८ ॥
देवपन्नगकन्याश्च रार्षितनयाश्च याः । क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ॥ ९ ॥
मर्वर्तुपूपभोग्यत्वादम्यत्वात् काननम्य च । नित्यशम्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ १० ॥
देशम्य रमणीयत्वात् पुलस्त्यो यत्र स द्विजः । गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ॥ ११ ॥
मुनेम्नपम्बिनस्तम्य विघ्नं चक्रुरनिन्दिताः। अथ क्रुद्धो महातेजा व्याजहार महामुनिः ॥ १२ ॥
या मे दर्शनमागच्छेत् सा गर्भं धारयिष्यति । तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ॥ १३ ॥
ब्रह्मशापभयाद्रीतास्तं देशं नोपचक्रमुः। तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥
गत्वाश्रमपदं तत्र विचचार सुनिर्भया । न सापश्यत् स्थिना तत्र कांचिदभ्यागतां सखीम् ॥ १५ ॥
तम्मिन् काले महातेजाः प्राजापत्यो महानृषिः । स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ १६ ॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् । अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥
बभूव च समुद्विमा दृष्ट्वा तद्दोषमात्मनः । इदं मे किं विति ज्ञात्वा पितुर्गत्वाश्रमे स्थिता ॥ १८ ॥
तां तु दृष्ट्वा तथाभूतां तृणबिन्दुरथाब्रवीत् । किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् । न जाने कारणं तात येन मे रूपमीदृशम् ॥ २० ॥
किं तु पूर्वं गतास्म्येका महर्षे वितात्मनः। पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ २१ ॥
न च पश्याम्यमहं तत्र कांचिदभ्यागतां सखीम् । रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ २२ ॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः। ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ २३ ॥
स तु विज्ञाय तं शापं महर्षेभावितात्मनः । गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २४ ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम्। भिक्षा प्रतिगृहाणेमा महर्षे स्वयमुद्यताम् ॥ २५ ॥
तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते। शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षि धार्मिकं तदा। जिघृक्षुरब्रवीत कन्यां बाढमित्येव स द्विजः ॥२७ ॥