पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकत्रिंशः सर्गः एकत्रिंशः सर्गः मिथिलाप्रस्थानम् अथ तां रजनी तत्र कृतार्थौ रामलक्ष्मणौ । उपतुर्मुदितौ वीरौ प्रहृष्टेरान्तरात्मना ।। प्रभातयां तु शर्वर्यां कृतपौर्वाह्निकक्रियौ । विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः ।। २ अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ । आज्ञापय यथेष्टं वै शासनं करवाव किम ॥ एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः । विश्वामित्र पुरस्कृत्य रामं वचनमब्रुवन् ।। मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तत्र' यास्यामहे वयम् ॥ त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं च धनूरत्नं तत्रैकं द्रष्टुमर्हसि ।। तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ।। नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथंचन मानुषाः ॥ धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ।। तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूनल सुनाभं सर्व दैवतैः ।। आयागभृतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्धूपैश्चागरुगन्धिभिः ॥ १३ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा । सर्पिसङ्घः मकाकुत्स्थ आमन्त्र्य वनदेवताः ।। स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥ १५ प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् । उत्तगं दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १६ तं प्रयान्तं मुनिवरमन्वयादनुसारिणाम् । शकटीशतमात्रं च प्रयाणे ब्रह्मवादिनाम् ॥ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ।। निवर्तयामास ततः पक्षिसङ्घान् मृगानपि । ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।। १५ वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः । तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ॥ विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः । रामोऽपि महसौमित्रिर्मुनींस्तानभिपूज्य च ।। २१ अग्रतो निषसादाथ विश्वामित्रस्य धीमतः । अथ रामो महातेजा विश्वामित्रं महामुनिम् ।। पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः । भगवन् कोन्वयं देशः समृद्धवनशोभितः ।। २३ श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः । चोदितो रामवाक्येन कथयामास सुव्रतः ।। तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे मिथिलाप्रस्थानं नाम एकत्रिंशः सर्गः