पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे



सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् । भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥ २५ ॥
तस्य चैष वरी दत्तो वासवेन परन्तप । ससैन्यस्य तथा तिथ्यं कृतं सर्वगुणान्वितम् ॥ २६ ॥
निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् । मन्ये वानरसेना सा नदीम् तरति गोमतीम् ॥ २७ ॥
रजोवर्षं समुद्धतं पश्य वालकिनीं प्रति । मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः ॥ २८ ॥
तदेतदृश्यते दूराद्विमलं चन्द्रसन्निभम् । विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥ २९ ॥
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना। तरुणादित्यसंकाशं विमानं रामवाहनम् ॥ ३० ॥
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् । एतस्मिन् प्रानरौ वीरौ वैदेह्या सह राघवौ ॥ ३१ ॥
सुग्रीवश्च महातेजा राक्षसश्च विभीषणः । ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत् ॥ ३२ ॥
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते । रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ॥ ३३ ॥
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे। प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुख. ॥ ३४ ॥
स्वागतेन यथार्थेन ततो राममपूजयत् । मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः ॥ ३५ ॥
रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः । ततो विमानाग्रगतं भरतो भ्रातरं तदा ॥ ३६ ॥
ववन्दे प्रयतो रामं मेरुस्थमिव भास्करम् । ततो रामाभ्यनुज्ञातं तद्विभानमनुत्तमम् ॥ ३७ ॥
हंसयुक्तं महावेगं निष्पपात महीतले। आरोपितो विमानं तद्भरतः सत्यविक्रमः ॥ ३८ ॥
राममासाद्य मुदिनः पुनरेवाभ्यवादयत् । तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ॥ ३९ ||
अङ्के भरतमारोप्य मुदितः परिषस्वजे । ततो लक्ष्मणमासाद्य वैदेहीं चाभ्यवादयत् ॥ ४० ॥
अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् । सुग्रीवं कैकयीपुत्रो जाम्बवन्तं तथाङ्गन्दम् ॥ ४१ ॥
मैन्दं च द्विविदं नीलमृषभं परिषस्वजे । सुपेणं च नलं चैव गवाक्षं गन्धमादनम् ॥ ४२ ॥
शरभं पनसं चैव भरतः परिषस्वजे । ते कृत्वा मानुपं रूपं वानराः कामरूपिणः ॥ ४३ ॥
कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा । अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् ॥ ४४ ॥
परिष्वज्य महातेजा भरतो धर्मिणां वरः । त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः ॥ ४५ ॥
सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम् । विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत् ॥ ४६ ॥
दिष्ट्या त्वया सहायेन कृतं कर्म सदुष्करम् । शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ॥ ४७ ॥
सीतायाश्चरणौ पश्चाद्विनयादभ्यवादयत् । रामो मातरमासाद्य विषण्णां शोककर्शिताम् ॥ ४८ ॥
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् । अभिवाद्य सुमित्रां च कैकयीं च यशस्विनीम्॥ ४९ ॥
स मातृश्च ततः सर्वाः पुरोहितमुपागतम् । खागतं ते महाबाहो कौसल्यानन्दवर्धन ॥ ५०॥
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् । तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ॥ ५१ ॥
व्याकोशानीव पद्मानि ददर्श भरताग्रजः। पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ॥ ५२ ॥
चरणाम्यां नरेन्द्रस्य योजयामास धर्मवित् । अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ॥ ५३ ॥
एतत्ते रक्षितं राजन् राज्य निर्यातितं मया । अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ॥ ५४ ॥