पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् । अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥ ३५
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् । अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः॥ ३६
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् । उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ३७
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी । सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ ३८
एवमुक्तो हनुमता भरतो प्रातृवत्सलः । पपात सहसा हृष्टो हर्षान्मोहं जगामह ॥ ३९
ततो मुहूर्तादुत्थाय प्रत्याश्वम्य च राघवः। हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ४०
अशोकजैः प्रीतिमयैः कपिमालिड्ग्य संभ्रमात् । सिषेच भरतः श्रीमान् बिपुलैरस्रबिन्दुभिः ॥ ४१
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ४२
गवां शतसहस्रं च ग्रामाणां च शतं परम् । सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥४३
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः । सर्वाभरणसंपन्नाः संपन्नाः कुलजातिभिः ॥ ४४

  निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् ।
  प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद्वचः ॥ ४५


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे भरतप्रियाख्यानं नाम अष्टाविंशत्युत्तरशततमः सर्गः



एकोनत्रिंशदुत्तरशततमः सर्गः

हनूमद्भरतसंभाषणम्


बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥ १
कल्याणी बत गाथैयं लौकिकी प्रतिभाति मे। पति जीवन्तमानन्दो नरं वर्षशतादपि ॥२ २
राघवस्य हरीणां च कथमासीत् समागमः' । कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥३
स पृष्टो राजपुत्रेण बृम्यां समुपवेशितः । आचचक्षे ततः सर्वं रामस्य चरितं वने ॥ ४
यथा प्रव्राजितो रामो मातुर्दत्तो वरस्तव । यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ ५
यथा दूतैम्त्वमानीतस्तृर्णं राजगृहात प्रभो । त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्।। ६
चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शन । निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम् ॥ ७
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् । आर्यस्य पादुके गृह्य यथासि पुनरागतः ॥ ८