पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१५
अष्टाविंशत्युत्तरशततमः सर्गः


सुग्रीवेण च संसर्गं वालिनश्च वधं रणे। मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ॥ ७
लङ्खयित्वा महातोयमापगापतिमव्ययम् । उपायानं समुद्रस्य सागरस्य च दर्शनम् ॥ ८
यथा च कारितः सेतू रावणश्च यथा हतः । वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ॥ ९
महादेवप्रसादाच पित्रा मम समागमम् । उपयातं च मां सौम्य भरतस्य निवेदय ॥ १०
सह राक्षसराजेन हरीणां प्रवरेण च । जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः ॥ ११
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः । एतच्छ्रु त्वा यमाकारं भजते भरतस्तदा ॥ १२
स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति । ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येगितानि च ॥ १३
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभापणेन च । सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम् ॥ १४
पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः । संगत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयम् भवेत् ॥ १५
प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः । तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ॥ १६
यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि । इति प्रतिसमादिप्टो हनुमान् मारुतात्मजः ॥ १७
मानुषं धाग्यन् रूपमयोध्यां त्वरितो यथौ । अथोत्पपात वेगेन हनुमान् मारुतात्मजः ॥ १८
गरुन्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् । लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ॥ १९
गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च । शृङ्गिवेरपुरं प्राप्य गुह्मासाद्य वीर्यवान् ॥ २०
स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् । सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ॥ २१
सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् । पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ॥ २२
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् । एवमुत्तवा महातेजाः संप्रहृष्टतनूरुहः ॥ २३
उत्पपात महावेगो वेगवानविचारयन् । सोऽपश्यद्रामतीर्थं च नदी वालुकिनी तथा ॥
गोमती तां च सोऽपश्यद्भीमं सालवनं तथा । प्रजाश्च बहुसाहस्राः स्फीताश्जनपदानपि ॥ २५
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः। आससाद द्रुमान् फुल्लान्नन्दिग्रामसमीपगान् ॥२६
स्त्रीभिः सपुत्रैर्वृद्धश्च रममाणैरलङ्कृतान् । सुराधिपम्योपवने यथा चैत्ररथे द्रुमान् ॥ २७
कोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् । ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ २८
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् । फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥ २९
समुन्नतजटाभारं वल्कलाजिनवाससम् । नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥ ३०
पादुके ते पुरस्कृत्य शासतं कै वसुन्धराम् । चातुर्वर्ण्यम्य लोकस्य त्रातारं सर्वतो भयात् ॥ ३१
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः । बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥ ३२
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् । परिभोक्तुं त्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥ ३३
तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् । उवाच प्रा्ञ्जलिर्वाक्यं हनुमान् मारुतात्मजः ॥३३