पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१६
सप्तविंशत्युत्तरशततमः सर्गः

अगस्त्यस्याश्रमश्चैव दृश्यते पश्य मैथिलि । दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णम्य महात्मनः ॥ ४२ ॥
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् । उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥ ४३ ॥>
अस्मिन् देशे महाकायो विराधो निहतो मया । एते हि तापसावासा दृश्यन्ते तनुमध्यमे ॥
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः । अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ ४५ ॥
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशने । यत्र मां कैकयीपुत्रः प्रसादयितुमागतः ॥

एषा सा यमुना दूरादृश्यते चित्रकानना । भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥।४७ ॥
एपा त्रिपथगा गङ्गा दृश्यते वग्वर्णिनि । नानाद्विजगणाकीर्णा संप्रपुष्पितकानना ॥॥

शृङ्गिवेरपुरं चैतद्गुहो यत्र सखा मम : । एपा सा दृश्यते सीते सरयूर्यू पपालिनी ॥ ५० ॥
नाना नरुशताकीर्णा संपुष्पितकानना । एषा मा दृश्यतेऽयोध्या राजधानी पितुर्मम ।।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता । ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ॥ ५१ ॥
उत्पत्योत्पत्य दहशुम्तां पुरी शुभदर्शनाम ॥

ततस्तु तां पाण्डुरहर्म्यमालिनी विशालकक्ष्यां गजवाजिसंकुलाम् ॥
पुरीषयोध्यां ददृशु प्लवङ्गपाः पुरी महेन्द्रम्य यथामरावतीम् ॥ ५२ ॥


इत्यार्षे श्रीमद्रामायणे वात्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां स्संहितायां

युद्धकाण्ले प्रत्यावति सिपथवर्णनं नाम षड्विंशत्युत्तरशततमः सर्गः




सप्तविंशत्युत्तरशततमः सर्गः

भरद्वाजामन्त्रणम्


पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः । भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥ १
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् । शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे ।।
कच्चिच्च युक्तो भरतो जीवर्न्त्याप च मातरः । एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।।
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रदृष्टवत् । पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ॥ ४
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे । त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ॥ ५
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् । पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ।६
सर्वभोगैः परित्यक्तं स्वर्गच्युनमिवामरम् । दृष्ट्वा तु करुणा पूर्व ममासीत् समितिंजय ॥
कैकेयीवचने युक्तं वन्यमूलफलाशिनम् । सांप्रतं सुसमृद्धार्थ समित्रगणबान्धवम् ॥८
समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा । सर्वं च सुखदुःखं ते विदितं मम राघव ॥९
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् । ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ॥ १०
रावणेन हृता भार्या बभूवेयमनिन्दिता । मारीचदर्शनं चैव सीतोन्मथनमेव च ।११