श्रीमद्वाल्मीकिरामायणे बालकाण्डे
सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया । विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ।।
मन्त्रवच्च यथान्याय यज्ञोऽसौ संप्रवर्तते । आकाशे च महाशब्दः प्रादुरासीद्भयानमः ।।
आवार्य गगनं मेघो यथा प्रावृषि निर्गतः । तथा मायां विफुर्वाणौ राक्षसावभ्यधावताम् ।।
मारीचश्च सुबाहुश्च तयोरनुचरास्तथा । आगम्य भीमसंकाशा रुधिरौघानवासृजन् ।।
तां तेन रूधिरौघेण वेदि वीक्ष्य समुभिताम् । सहसाभिद्रतो रामस्तावपश्यततो दिवि ।। १३
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः । लक्ष्मणं त्वथ संप्रेक्ष्य रामो वचनमब्रवीत् ।। १४
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् । मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १५
करिष्यामि न संदहो नोत्सहे हन्तुमीदृशान् । इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ।। १६
मानवं परमोदारमस्त्रं परमभास्वरम् । चिक्षेप परमकृद्धो मारीचोरसि राघवः ।।
स तेन परमास्त्रेण मानवेन समाहितः । संपूर्ण योजनशतं क्षिप्त सागरसंप्लवे ।।
विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् । निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ।।
पश्य लक्ष्मण शीतेषु मानवं धर्मसंहितम् । मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत ।।
इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः । राक्षसान् पापकर्मस्थान् यज्ञघ्नान् पिशिताशनान् || २१
इत्युक्त्वा लक्ष्मण चाशु लाघव दर्शयन्निव । संगृह्य सुमहच्चापमाग्नेयं रघुनन्दनः ॥
सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि । शेषान् वायव्यमादाय निजघान महायशाः ।।
राघवः परमोदारो मुनीनां मुदमावहन् । स हत्या राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।।
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजयी पुरा । अथ यज्ञो समाप्ते तु विश्वामित्रो महामुनिः ॥
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् । कृतार्थोऽस्मि महाबाहो कृत गुरुवचस्त्वया ॥
सिद्धाश्रममिदं सत्य कृतं राम महायशः । स हि रामं प्रशम्यैवं ताभ्या संध्यामुपागमत् ।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे यज्ञरक्षण नाम त्रिंशः सर्गः