पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ श्रीमद्वाल्मीकिरामायणे बालकाण्डे भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी। रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः॥ २२ एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छामि सुव्रत। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायां बालकाण्डे अस्त्रसंहार ग्रहणं नाम अष्टाविंशः सर्गः

एकोनविंशः सर्गः सिद्धाश्रमः अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ इह राम महाबाहो विष्णुर्देववरः प्रभुः । वर्षाणि सुबहूनीह तथा युगशतानि च ।। तपश्चरणयोगार्थमुवास सुमहातपाः । एष पूर्वाश्रमो राम वामनस्य महात्मनः ।। सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः । एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ।। निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणन् । कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ यझं चकार सुमहानसुरेन्द्रो महाबलः । बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।। समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे । बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।। असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् । ये चैनमभिवर्तन्ते याचितार इतस्ततः॥ यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति । स त्वं सुरहितार्थाय मायायोगमुपागतः ।। वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् । एतस्मिन्नन्तरे राम काश्यपोऽग्निसमप्रभः ।। अदित्या सहितो राम दीप्यमान इवौजसा। देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।। व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् । तपोमयं तपोराशिं तपोमूर्तिं तपोधनम् ॥ तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् । शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो॥ त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः । तमुवाच हरिः प्रीतः काश्यपं धूतकल्मषम ।। वरं वरय भद्रं ते वरार्होऽसि मतो मम । तच्छृत्वा वचनं तस्य मारीचः काश्यपोऽब्रवीत् ॥ अदित्या देवतानां च मम चैवानुयाचतः । वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ॥ पुत्रत्वं गच्छ भगवन्नदित्यां मम चानघ । भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन ।। शोकार्तानां तु देवानां साहाय्यं कर्तुमईसि । अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति ॥