पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः । हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः ॥ २३ नर्दन्तश्चामिपेतुस्तान् वानरा द्रुमयोधिनः । दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ॥ २४ अर्दिता वानरैइष्टैर्लङ्कामभ्यपतन् भयान् । गताश्रयत्वात् करुणैर्बाष्पप्रसवणैर्मुखैः ॥ २५ ततो विनेदुः संहृष्टा वानरा जितकाशिनः । वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ २६ अथान्तरिक्षे न्यनदत् सौम्यस्त्रिदशदुन्दुभिः । दिव्यगन्धवहम्तत्र मारुतः सुसुखं वबौ ॥ २७ निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि । किरन्ती राघवरथं दुरवापा मनोरमा ॥ २८ राधवस्तवसंयुक्ता गगनेऽपि च शुश्रुवे । साधु साध्विति वागम्या दैवतानां महात्मनाम् ॥ २९ आषिवेश महाहर्षों देवानां चारणैः सह । रावणे निहते रौद्रे सर्वलोकभयाङ्करे ॥ ३० ततः सकामं सुग्रीवमङ्गदं च महाबलम् । चकार राघवः प्रीतो हत्या राक्षसपुङ्गवम् ॥ ३१ ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नमोऽभवत् । मही चकम्पे न हि मारुनो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ ३२ ततस्तु सुप्रीवविभीषणादयः सुहृद्विशेषाः महलक्ष्मणाम्तदा । समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिना त्यपूजयन् ॥ ३३ स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज । रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरमिसंवृतो यथेन्द्रः ॥ ३४ इत्यार्षे श्रीमदामायणे वाग्मीकीये आदिकान्ये चतुर्विंशतिसहस्निकायां संहितायाम् युद्धकाण्डे पौलस्त्यवधो नाम एकादशोत्तरशनतमः सर्ग.

द्वादशोत्तरशततमः मर्गः विभीपणविलापः भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् । शोकवेगपरीतात्मा विललाप विभीषणः ॥ १ वीर विक्रान्त विख्यान विनीत नयकांविद । महाइर्शयनोपेन किं शेषेऽद्य हतो भुवि ॥ २ विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ । मकुटेनापवृत्तन भाम्कराकारवर्चसा ॥ ३ तदिदं वीर संप्राप्तं मया पूर्व समीरितम् । काममोहपरीतम्य यत्ते न रुचितं वचः ॥ ४ यन्न दर्पात् प्रहम्ती वा नेन्द्रजिन्नापरे जनाः । न कुम्भकर्णाऽतिरथो नातिकायो नरान्तकः ॥ ५ न स्वयं त्वममन्येथाम्तम्योदर्काऽयमागतः । गतः सेतुः सुनीतानां गतो धर्मस्य विप्रहः ॥६ गतः सत्त्वस्य संक्षेपः प्रस्तावानां गतिर्गना । आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ॥७ १. बहुमन्येथाः पुना ।