पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशोत्तरशततमः सर्गः ८८७ दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवम्य । सुरवररथसारथिर्महान् रणगतमेनमुवान वाक्यमाशु ॥ इत्यार्चे श्रीमद्रामायणे वाल्मीकीये आदिकाठये चतुर्विंशतिसहस्तिकायां संहितायाम् युद्धकाण्डे रावणैकशतशिरश्छेदनं नाम दशोत्तरशततमः सर्ग: १० एकादशोत्तरशततमः सर्गः पौलम्त्यवधः अथ संस्मारयामास राघवं मातलिस्वदा। अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥ १ विसृजास्मै वधाय त्वमस्त्रं पैनामहं प्रभो। विनाशकाल: कथितो यः सुरैः सोऽद्य वर्तते ॥२ ततः संस्मारितो रामस्तेन वाक्येन मानलेः । जग्राद स शरं दीप्तं निःश्वमन्तमिवोरगम् ॥ ३ यमम्मै प्रथमं प्रादादगम्त्यो भागवानृषिः । ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ॥ ४ ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थभमिनीजसा । दत्तं सुरपतेः पूर्व त्रिलोकजयकाइक्षिणः ॥ ५ यम्य वाजेषु पवनः फले पावकभाम्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ६ जाज्वल्यमानं वपुषा मुघुङ्खं हेमभृषितम् । तेजसा सर्वभूतानां कृतं भाम्करवर्चसम् ॥ ७ सधूममिव कालाग्निं दीप्तमाशीविषं यथा । परनागाश्वबृन्दानां भेदनं क्षिप्रकारिणम् ॥ ८ द्वाराणां परिघाणां च गिरीणामपि भेदनम् । नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ ९ वज्रमारं महानादं नानाममितिदारणम् । सर्ववित्रामनं मीम श्रमन्तमिव पन्नगम् ॥ १० कहगृध्रबकानां च गोमायुगणरक्षसाम । नित्यं भध्यप्रदं युद्धं यमरूपं भयावहम् ॥ ११ नन्दनं वानरंन्द्राणां रक्षसागवसादनम् । वाजितं विविधैर्वाजैश्चारुचित्रर्गरुत्मनः ॥ १२ तमुत्तमेषू लोकानामिक्ष्वाकुभयनाशनम् । द्विषनां कीर्तिहरणं प्रहर्पकरमात्मनः ॥ १३ अभिमन्त्र्य ततो रामम्तं महेपुं महाबलः । वेदपोक्तेन विधिना संदधे कार्मुके बली ॥ १४ तस्मिन् संधीयमाने तु राघवेण शरोत्तमे । सर्वभूतानि वित्रेमुश्चचाल च वसुंधरा ॥ १५ स रावणाय संक्रुद्धी भृशमायम्य कार्मुकम् । चिक्षिप परमायत्तस्तं शरं मर्मघातिनम् ॥ १६ स वज्र इव दुर्धर्षो वज्निबाहुविसर्जितः । कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥ १७ स विसृष्टो महावेगः शरीरान्तकरः शरः । विभेद हृदयं तम्य रावणस्य दुरात्मनः ॥ १८ रुधिराक्तः स वेगेन जीवितान्तकरः शरः । रावणम्य हरन् प्राणान् विवेश धरणीतलम् ॥ १९ स शरो रावणं हत्वा रुधिरार्दीकृतच्छविः । कृतकर्मा निभृतवत् स्वतूणी पुनरागमत् ॥ २० तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् । निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥ २१ गतासुभीमवेगम्तु नैर्ऋतेन्द्रो महाधुनिः । पपात स्यन्दनाद्भूमौ वृत्रो वज्नहतो यथा ॥ २२