पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७९
पञ्चात्तरशततमः सर्गः


ततः क्रोधसमाविष्टो रामो दशरथात्मजः । उवाच रावणं वीरः प्रहस्य परुषं वचः ।।१०
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम । हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान ।।
मया विरहितां दीनां वर्तमानां महावने । वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥१२
स्त्रीषु शूर विनाथासु परदाराभिमर्शक । कृत्वा कापुरुषं कर्म शरोऽहमिति मन्यसे ।।१३
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित । दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ।। १४
शूरेण धनदभ्रात्रा बलैः समुदितेन च । श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ॥१५
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च । कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ।। १६
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते । नैव लज्जास्ति ते सीतां चोरवद्व्यपकर्षतः ।। १७
यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् । भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥
दिष्ट्यासि मम दुष्टात्मश्चक्षुर्विषयमागतः । अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ १९
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलिनकुण्डलम् । क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥
निपन्योरसि गृध्रास्ते क्षितौ क्षिप्रस्य रावण । पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ॥२१
अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते । कर्षन्त्वान्त्राणि पतगा गरुत्मन्त इवोरगान् ।।
इत्येवं संवदन् वीरो रामः शत्रुनिर्बहणः । राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ २३
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे। रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ।।२४
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितान्मनः । प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ।।२५
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः । भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २६
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् । हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ २७
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् । नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना ।। २८
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च । न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ।।
सूतस्तु रथनेतास्य तदवस्थं समीक्ष्य तम् । शनैर्युद्धादसंभ्रान्तो रथं तस्यापवाहयत् ।।३०
गमबाणविभिन्नाङ्गो रावणो राक्षसेश्वरः । निरस्तविक्रमः संख्ये रणे श्रान्तः पपात सः॥ ३१
सूतस्तु व्यथितं बाणै: स्यन्दनस्थं निरीक्ष्य तम् । तस्माद्रणादपोवाह रावणं हतपौरुषम् ॥ ३२

रथं च तस्याथ जवेन मारथिर्निवार्य भीमं जलदस्वनं तदा
जगाम भीत्या समरन्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य ।।३३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्निकायां संहितायाम्

युद्धकाण्डे दशग्रीवविघूर्णन नाम पञ्चोत्तरशततमः सर्गः