पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


तच्छूलं राघवो दृष्ट्वा ज्वलन्तं धोरदर्शनन्। ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ॥२२
आपतन्तं शरौघेण वारयामास राघवः । उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥ २३
निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान् । रावणस्य महाशूल: पतङ्गानिव पावकः ॥
तान् दृष्ट्वा भस्मसाद्भूताशूलसंस्पर्शचूर्णितान् । सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ।।
स तां मातलिनानीतां शक्तिं वासवनिर्मिताम् । जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥ २६
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना । नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ।। २७
सा क्षिप्ता गक्षसेन्द्रस्य तस्मिन्शूले पपात ह । भिन्नः शक्त्या महाञ्शूलो निपपात हतद्युतिः ।।
निर्बिभेद ततो बाणैर्हयानस्य महाजवान् । रामम्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ।। २९
निर्बिभेदोरसि ततो रावणं निशितैः शरैः । राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ।।३०
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः । राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥ ३१

स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।
जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ।। ३२

इल्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्यं चतुर्विंशतिसहसिकायां संहितयाम्

युद्धकाण्डे रावणशूलभङ्गो नाम चतुरुत्तरशततमः सर्ग:

पञ्चोत्तरशततमः सर्गः

दशग्रीवविघूर्णनम

स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे । रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १
स दीप्तनयनो रोषाच्चापमायस्य वीर्यवान् । अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे ।। २
बाणधारासहस्रस्तैः स तोयद इवाम्बरात् । राघवं रावणो बाणैस्तटाकमिव पूरयत् ।। ३
पूरितः शरजालेन धनुर्मुक्तेन संयुगे। महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ।।४
स शरैः शरजालानि वारयन् समरे स्थितः । गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥५
ततः शरसहस्राणि क्षिप्रहस्नो निशाचरः । निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥६
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः । दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः ।।७
शराभिघातसंरब्धः सोऽपि जग्राह सायकान् । काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ।। ८
ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ । शरान्धकारे समरे नोपालक्षयतां तदा ।।९