पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७५
त्र्युत्तरशततमः सर्गः


नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ । वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥५२
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः । नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ।।५३
अहं तु बधमिच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः ।।५४

यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ।
यदि तव राजवरात्मजाभिलापः कुरु च वचो मम शीघ्रमद्य वीर ।।५५

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे लक्ष्मणसंजीवनं नाम द्वयुत्तरशततमः सर्ग:

त्र्युत्तरशततमः सर्गः

ऐन्द्ररथकेतुपातनम्

लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः । संदधे परवीरघ्नो धनुरादाय वीर्यवान् ॥१
रावणाय शरान् घोरान् विससर्ज चमूमुखे । अथान्यं रथमारुह्य रावणो गक्षसाधिपः ।।२
अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भाम्करम् । दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ॥ ३
आजघान महाघोरैर्धाराभिरिव तोयदः । दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः ।।४
निर्बिभेद रणे रामो दशग्रीवं समाहितम् । भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ॥५
न समं युद्धमित्याहुर्देवगन्धर्वदानवा । ततो देववर: श्रीमाञ्श्रुत्वा तेषां वचोमृतम् ॥६
आहूय मातलिं शक्रो वचनञ्चेदमब्रवीत् । रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम् ।।७
मातले भूतलं यात कुरु देवहितं महत । इत्युक्तो देवराजेन मातलिर्देवसारथिः ॥८
प्रणम्य शिरसा देवं ततो वचनमब्रवीत् । शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम् ॥ ९
ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् । ततः काञ्चनचित्राङ्ग. किंकिणीशतभूषितः॥ १०
तरुणादित्यसकाशो वैदूर्यमयकूबरः । सदश्चैः काश्चनापीडैयुक्तः श्वेतप्रकीर्णकैः ।।११
हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः । रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ।। १२
देवराजेन संदिष्टो रथमारुह्य मातलिः । अभ्यवर्तत काकुस्थमवतीर्य त्रिविष्टपात् ॥ १३
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः । प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ १४