पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७३
द्वयुत्तरशततमः सर्गः


द्वयुत्तरशततमः सर्गः

लक्ष्मणसंजीवनम्

शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।। १
स दत्त्वा तुमुलं युद्ध रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत् ॥२
एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ । सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥३
शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम । पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ।।४
अयं स समरश्लाघी माता मे शुभलक्षणः । यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ।।५
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः । सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता। ६
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव । चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ॥ ७
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना । विनिष्टनन्तं दुःखार्तं मर्मण्यभिहतं भृशम् ।।८
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् । दुःखेन महत्ताविष्टो ध्यानशोकपरायणः ।।९
परं विषादमापन्नो विललापाकुलेन्द्रियः । न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।।१०
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु । किं मे गज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ॥ ११
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः । देशे देशे कलत्राणि देशे देशे च बान्धवाः ॥ १२
नं तु देशं न पश्यामि यत्र भ्राता सहोदरः । किन्नु राज्येन दुर्घर्षलक्ष्मणेन विना मम ॥ १३
कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम् । उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया ।।
किन्नु वक्ष्यामि कौसल्यां मातरं किन्नु कैकयीम् । भरतं किन्नु वक्ष्यामि शत्रुघ्नं च महाबलम् ।।
सह तेन वनं यातो विना तेनागतः कथम । इहैव मरणं श्रेयो न तु बन्धुनिबर्हणम् ॥१६
किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि । ये न मे धार्मिको भ्राता निहतश्चाग्रतो मम ॥१७
हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो । एकाकी किंनु मां त्यक्ता परलोकाय गच्छसि ॥ १८
विलपन्तं च मां भ्रातः किमर्थं नावभाषसे । उत्तिष्ठ हि किं शेष दीनं मां पश्य चक्षुषा ॥
शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च । विषण्णस्य महाबाहो समाश्वासयिता च कः ॥२०
इत्येवं विलपन्तं तं शोकविह्वलितेन्द्रियम् । विवेष्टमानं करुणमुछ्वसन्तं पुनः पुनः ॥ २१
राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् । न मृतोऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः ॥
न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् । सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ।।
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने । एवं न विद्यते रूपं गतासूनां विशांपते ।। २४