पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७१
एकोत्तरशततमः सर्गः


ततो विव्याध गात्रेषु सर्वेषु समितिंजयः । राघवन्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ।। १२
एतस्मिन्नन्तरे क्रुद्धो राघवस्यनुजो बली । लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ १३
तैः सायकैर्महावेगै रावणस्य महाद्युतिः । ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् । जहार लक्ष्मणः श्रीमान्नैर्ऋतस्य महाबलः ॥ १५
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् । लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ।। १६
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् । जघानाप्लुत्य गदया रावणम्य विभीषणः ॥ १७
हताश्वाद्वेगवान् वेगाद्रवप्लुत्य महारथान् । क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ १८
ततः शक्तिं महाशक्तिीर्दीप्तां दीप्ताशनीमिव । विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान ॥१९
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः । अथोदतिष्ठत् संनादो वानराणां तदा रणे ॥२०
सा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥
ततः संभाविततरां कालेनापि दुरासदाम् । जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ।। २२
सा वेगिता बलवना रावणेन दुरासदा । जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥ २३
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मण । रावणं शक्तिहस्तं वै शरवर्षेरवाकिरत् ।। २५
कीर्यमाणः शरौघेण विसृप्टेन महात्मना । न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ।। २६
मोक्षिनं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावण । लक्ष्मणाभिमुखस्तिष्टन्निदं वचनमब्रवीत् ॥ २७
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषण । विमुच्य राक्षसं शक्तिस्त्वदीयं विनिपात्यते ॥२८
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा । मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९
इत्येवमुक्त्वा तां शक्तिमष्टघण्टा महास्वनाम् । मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥३०
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा । रावणः परमक्रुद्धश्चिक्षेप च ननाद च ।। ३१
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना । शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ।। ३२
तामनुव्याहरच्छक्तिमापतन्ती स राघव । स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा । मुक्ता शूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४
न्यपतत् सा महावेगा लक्ष्मणम्य महोरसि। जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३५
ततो रावणवेगेन सुदूरमवगाढया। शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ।। ३६
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ।। ३७
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः । बभूव संरब्धतरो युगान्त इव पावकः । ३८
स विषादस्य कालोऽयमिति संचिन्त्य राघवः । चक्रे सुतुमुलं युद्धं रावणम्य वधे धृतः ॥ ३९
सर्वयत्नेन महता लक्ष्मणं संनिरीक्ष्य च । स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ॥४०