पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षण्णवतितमः सर्गः

८६३


जाम्बूनदमयैश्चैव सहस्रकलशैर्युतम् । तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं ययुः ।। ३२
तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः । कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम् ॥ ३३
द्रुतं सूतसमायुक्तं युक्ताष्टतुरंगं रथम् । आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ॥ ३४
ततः प्रयातः सहसा राक्षसैबहुभिर्वृतः। रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ।। ३५
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षो स्थानारुरुहुस्तदा ॥ ३६
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम् । नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः॥३७
ततो युद्धाय तेजस्वी रक्षोगणबलैंवृतः । निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥३८
ततः प्रजवनाश्वेन रथेन स महारथः । द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥३९
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदुर्घोराश्च संचचालेव मेदिनी ॥ ४०
ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि । ध्वजाग्रे न्यपनद्गृध्रो विनेदुश्वाशिवं शिवाः ॥ ४१
नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत । विवर्णं वदनं चासीत् किंचिदभ्रश्यत स्वरः ।। ४२
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः । रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥४३
अन्नरिक्षात् पपातोल्का निर्घातममनिःस्वना । विनेदुरशिवा गृध्रा वायसैरनुनादिताः ॥ ४४
एतानचिन्तयन् घोरनुत्पातान् समुपस्थितान् । निर्ययौ रावणो मोहाद्वधार्थीं कालचोदितः ।।४५
तेषां तु रथघोषेण राक्षसानां महात्मनाम् । वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥४६
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम् । अन्योन्यमाह्वायानानां क्रुद्धानां जयमिच्छताम् ।। ४७
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः । वानराणामनीकेषु चकार कदनं महत् ॥४८
निकृत्तशिरसः केचिद्रावणेन वलीमुखाः । केचिद्विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः ॥ ४९
निरुच्छासा हताः केचित् केचित् पार्श्वेषु दारिताः। केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ।।५०

दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये।
ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुंगवास्ते ।।५१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिराहस्रिकायां संहितायां

युद्धकाण्डे रावणाभिषेणनं नाम षण्णवतितमः सर्गः