पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तविंशः सर्गः

अभिदुद्राव काकुत्स्थं लक्ष्मण च विनेदुषी । तामापतन्तीं वेगेन विक्रान्तामशनीमिव ।। शरेणोरसि विव्याध सा पपात ममार च । तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ।। साधु साध्विति काकुत्स्थं सुराश्च समपूजयन् । उवाच परमप्रीतः सहस्राक्षः पुरंदरः ।। सुराश्च सर्वे संहष्टा विश्वामित्रमथाब्रुवन् । मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ।। तोषिताः कर्मणानेन स्नेहं दर्शय राघवे । प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् । तपोबलभृतो ब्रह्मन् राघवाय निवेदय । पात्रभूतश्च ते ब्रह्मंस्तवानुगमने धृतः ॥ कर्तव्यं च महत् कर्म सुराणां राजसूनुना । एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथागतम् ।। विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते । ततो मुनिवरः प्रीतस्ताटकावधतोषितः ।। मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् । इहाद्य रजनीं राम वसेम शुभदर्शन ।। श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम । विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।। उवास रजनीं तत्र ताटकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि ॥ रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसंघैः। उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतियोध्यमानः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्यं चतुर्विंशतिसहस्रिकायां संहितायां बाल काण्डे ताटकावधो नाम षड्विंशः सर्ग:

सप्तविंशः सर्गः अस्त्रग्रामप्रदानम् अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ।। परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः॥ देवासुरगणान् वापि सगन्धर्वोरगानपि । यैरमित्रान् प्रसह्याजौ वशीकृत्य विजेष्यसि ।। तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ धर्मचक्रं ततो वीर कालचक्र तथैव च । विष्णुचक्र तथात्युप्रमैन्द्रमस्त्रं तथैव च ।। वज्रमस्त्रं नरश्रेष्ट शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ।। ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् । गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ॥