पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिनवतितमः सर्गः ८५५

रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् । सशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः ॥ २० यथा भवति सुस्वस्थस्तथा त्वं समुपाचर । विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ॥ २१ ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् । ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा ॥ तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया । एवमुक्तस्तु रामेण महात्मा हरियूथपः ॥ २३ लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् । स तस्या गन्धमाघ्राय विशल्यः समपद्यत ॥ २४ तथा निर्वेदनश्चैव संरूढव्रण एव च । विभीषणमुखानां च सुहृदां राघवाज्ञया ॥ २५ सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् । ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः ॥ २६ सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ॥ तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान् । अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ॥ २७ अपूजयन् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा । हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ॥ २८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे रावणिशस्त्रहतचिकित्सा नाम द्विनवतितमः सर्गः

त्रिनवतितमः सर्गः सीताहननोद्यमनिवृत्तिः

ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् । आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ १ युद्धे हतो महाराज लक्ष्मणेन तवात्मजः । विभीषणसहायेन मिषतां नो महाद्युतिः ॥ २ शूरः शूरेण संगम्य संयुगेष्वपराजितः । लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् ॥ ३ गतः स परमाँल्लोकाञ्शरैः संताप्य लक्ष्मणम् । स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ॥ ४ घोरमिन्द्रजित: संख्ये कश्मलं चाविशन्महत् । उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः ॥ ५ पुत्रर्शोकार्दितो दीनो विललापाकुलेन्द्रियः । हा राक्षसचमूमुख्य मम वत्स महारथ ॥ ६ जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः । ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ॥ मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि । अद्य वैवस्वतो राजा भूयो बहुमतो मम ॥ ८ येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा । एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ॥ ९ यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति । अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ॥ १० हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः । अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ॥ एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे । अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम् ॥